SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पीडिताः । अशक्तास्तद्वधेऽन्योऽन्यं, पर्यालोचं वितेनिरे ॥ २०५॥ शम्भोर्वीर्य विना नान्यस्तारकं हन्तुमीश्वरः । स तु सम्भोगसंलीनोऽस्ति दयाँ हिमभूभृतः ॥ २०६॥ भिया कोऽपि न तत्पार्थ, यात्यन्यो ह्यनलं विना । अतः सम्प्रार्थ्यते गन्तुमिति ते वै बभाषिरे ॥२०७॥ परोपकारिणः कार्यमेकस्यापि प्रकुर्वते । विशिष्य सर्वदेवानां, कृत्ये का स्यात्पराङ्मुखः ॥ २०८ ॥ यदर्थमखिला देवा, मग्नाश्चिन्तामहार्णवे । तत्रानल! भवानेव, गन्तुमीशो न चापरः ॥ २०९ ॥ तद्गत्वा दर्शयात्मानं, हिमाद्रिस्थस्य शूलिनः । कदाचित्त्वां विलोक्येशः, स्मरक्रीडां विमुञ्चति ॥ २१ ॥ हव्यवाहोऽथ तानूचे, कः शम्भोः सम्मुखं व्रजेत् । विशिष्यदृगवस्थस्य, खस्य श्रेयोऽभिलाषुकः? ॥२११ ॥ खट्वाङ्गधारिणं शूल-पाणिं नरकपालिनम् । श्मशानवासिनं कस्तमभिगच्छेजिजीविषुः ? ॥ २१२ ॥ ऊर्ध्वमुल्लास्य यो लिङ्गं, ताण्डवेन प्रनृत्यति । बलारिरपि तत्पार्थ, गन्तुमीशो भवेन्नहि ॥ २१३ ॥ कदाचित्कन्दरान्तःस्थः, शूलपाणिनि-18 हन्ति माम् । तदा मेका गतिः स्यात्तन्न मां प्रेषयतामराः! ॥२१४॥ तेऽप्यूचुर्मा स्म भैषीस्त्वं, यतोऽयं पार्वतीवशः । नूनं जगदिदं सम्यग् , दम्यते प्रमदाजनैः ॥ २१५ ॥ उक्तञ्च-मासेन दम्यते वाजी, वर्षेणोन्मत्तकुञ्जरः । निमेषोन्मेषमात्रेण, पुमांस्तु प्रमदाजनैः ॥ २१६ ॥ यदेव रोचते गौर्यास्तदेव कुरुते हरः । किं नाऽनल! त्वया दृष्टोऽर्द्धाङ्गे । तामुद्वहन्नयम् ॥ २१७ ॥ अतस्त्यज त्वमाशङ्का-मेतां यत्कुपितो हरः। न कर्ता भवतः पीडां, गौरीस्वान्तानुवृत्तये ॥ २१८ ॥ एवमस्त्विति गत्वाऽग्निहिमवत्कन्दरान्तरे । प्रेक्षत त्रिपुरारातिं, रतिलीलाविसंस्थुलम् ॥ २१९ ॥ CCCCCROCHECCARRIGOROSCARSA Jain Education H onal For Privale & Personal Use Only Harjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy