SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तेनोक्ते, सजीवाऽजनि रेणुका । सद्भूतं चेदिदं भ्रातर्जीवितस्त्वमपीह तत् ॥ १७६ ॥ जरासन्धोऽपि भूपालः, खण्डद्वितययोजनात् । जरया सजितो राज-सहस्राधीश्वरोऽजनि ॥ १७७ ॥ अन्यच्च श्रूयते सुन्दनिसुन्दौ द्वौ सहोदरौ । असुरो सुरवृन्दस्य, क्षयकालवदुत्थितौ ॥ १७८ ॥ पर्यालोच्याथ गीर्वाणैस्तद्वधाय तिलोत्तमा । तिलं तिलं खदेहेभ्य, उपादाय विनिर्ममे ॥ १७९ ॥ सर्वाङ्गसुन्दराकारा, मोहिनी सर्वकामिनाम् । प्रणम्य सा सुरान् स्माह, सुधामधुरया गिरा ॥ १८० ॥ यत्कर्त्तव्यं मया देवा-स्तदादिशत तेऽपि ताम् । प्रोचुरुद्धर नः सुन्द-निसुन्दातङ्कसं-12 कटात् ॥१८१॥ इत्याज्ञां शिरसि न्यस्य, ययौ तत्र तिलोत्तमा । यत्र तावसुरौ सुन्द-निसुन्दौ परितिष्ठतः ॥१८२॥ हारा हारकेयूर-नूपुरादिविभूषिता । सुरूपोचकुचा साचीवक्रनेत्रोडुपानना ॥ १८३ ॥ सा ताभ्यां युगपदृष्टा, दृष्टिपीयूषपारणम् । ततश्च सानुरागौ तौ, तस्यामेव बभूवतुः ॥ १८४ ॥ युग्मम् । तदात्यै युध्यमानौ तौ, शस्त्रैरस्त्रैश्च दारुणैः । मृतौ बन्धू अपि हहा, स्त्रीभिः को न विडम्बितः? ॥ १८५ ॥ उक्तञ्च-स्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुच्छेदितराजवंशाः ॥ १८६ ॥ देवाङ्गलवसंयोगात्, साता चेत्तिलोत्तमा । लूनलग्नेस्तदोपाइँस्त्वदनं किं न जायताम् ? ॥ १८७ ॥ श्रयते शैशवे वायु-सुतो मातरमञ्जनाम् । अप्राक्षीको ममाहारः, क्षुधितस्य भविष्यति ? ॥ १८८ ॥ सोचे वत्सातिरक्तानि, फलानि तव भोजनम् । तेनापि जगृहे सूर्योऽथोद्यन् पक्कफलभ्रमात् ॥ १८९॥ तेनापि चूर्णितं तच, वीक्ष्य माता Jan Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy