________________
000000004
܀
श्रीस्थानाङ्ग
मूत्रदीपिका वृत्तिः ।
सू०३३८
܀
܀܀܀܀
+++00000000000000000000000000000००००
अभओ। चोरस्स कए णट्टि य, वुढकुमारि परिकहिंसु ॥२॥"त्ति । 'ठवणाकम्मे' ति स्थापन प्रतिष्ठापनं स्थापना, तस्याः कर्म-करणं स्थापनाकर्म, येन ज्ञातेन परमतं षयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकम्र्मेति भावः, तच्च द्वितीयाङ्गे द्वितीये श्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्य, तत्र ह्युक्तमस्ति-काचित् पुष्करिणी कर्दमप्रचुरजला तन्मध्ये महत्पुण्डरीकं तदुद्धरणार्थ चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकईममार्गः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एव पके निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्दम एवामोधवचनतया तदुद्धृतवानिति ज्ञातम् , उपनयश्चायमत्र-कईमस्थानीया विषयाः, पुण्डरीकं राजादिभव्यपुरुषः, चत्वारः पुरुषाः परतीर्थिकाः, पञ्चमः पुरुषः साधुः, अमोघवचनं धर्मदेशना, पुष्करिणी संसारः, तदुद्धारो निर्वाणमिति । 'पडपन्नविणासि'त्ति प्रत्युत्पन्नस्य-तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थ तदासक्तिनिमित्तं स्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवतानिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् कचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गान्धर्विकाख्यानकस्यावगन्तव्येति । अथाहरणतद्देशो व्याख्यायते स च चतुर्दा, 'अणुसट्ठी'त्ति, अनुशासनमनुशास्तिः-सद्गुणोत्कीर्तनेनोपबृहणं सा विधेयेति यत्रोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधित देवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोदघाटितचम्पा
...०००००००००००००००००००००००००००००००000000000000000000000000
॥३७५॥
Jan Education
For Private & Personal use only
www.jainelibrary.org