SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ स्थूल ॥२॥ मन्दिरम् । स्वसौन्दर्यजितस्वगरमणीरामणीयका ॥ ११ ॥ स्थूलभद्रोऽवसत्तस्या, मन्दिरे मुदितोऽनिशम् । तातोद्धृतकुलोदारभारो चरित्रं निश्चिन्तमानसः ॥ १२ ॥ प्रायः श्रयेयुरासन्नं, पृथ्वीशं प्रमदालताः । इत्यमात्यो नृपस्याङ्गरक्षं चक्रे सिरीयकम् ॥१३॥ विद्याविशारदस्तवाभवद्वररुचिर्द्विजः। कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ १४ ॥ धनाशया धराधीश, प्रातरेत्यानिशं सुधीः । अष्टोत्तरशतैः श्लोकैनव्यैर्नन्दं स शंसति ॥ १५ ॥ नन्दोऽप्यस्मै धनं दित्सुमन्त्रिणो मुखमीक्षते । मन्त्रिमन्त्रानुंगा येन, राजानः स्युश्चिरायुषः ॥ १६ ॥ सम्यग्दर्शनपूतात्मा, ततो मन्त्रीत्यचिन्तयत् । शंसयां कवित्वानां, म्लानिः । स्यान्मम दर्शने ॥ १७॥ अतो मौनं व्यधादेष, नादादाजाऽपि किञ्चन । उतराशं विना वातं, न वर्षत्यम्बुदोऽपि हि ॥ १८ ॥ दिनैः कतिपयैः सोऽथ, खिन्नश्चित्ते व्यचिन्तयत् । ऊपरे वर्षणमिव, निष्फलाऽजनि मे स्तुतिः ॥ १९ ॥ स ज्ञातकारणः स्तोतुमारेमे मन्त्रिणः प्रियाम् । येनोपायं विना साध्यं, दुःसाध्यं नैव साव्यते ।। २० ।। तयाऽथ तुष्टया पृष्टो, वद विप्र ! प्रयोजनम् । सोऽवादीन्मत्कवित्वानि, त्वदर्ताऽसौ प्रशंसतु ।। २१ ॥ तयाऽय जगदे मन्त्री, स्वामिन्नेष द्विजः सदा । कवित्वान्याशया कृत्वा, समुपैति नृपान्तिकम् ।। २२ ।। अशंसया च युष्माकं, निराशः प्रत्यहं व्रजेत् । तन्नोचितं यतः सन्तः, प्राणैरप्युपकुर्वते ।। २३ ॥ प्रोचे प्रत्युत्तरं मन्त्री, मिथ्यात्वं न स्तवीम्यहम् । साऽवद व मिथ्यात्वं, स्यात्कवित्वादिशंसया ॥ २४ ॥ मिथ्यात्वं तत्कुदेवादिवर्णनं यद्विधीयते । अतो मतिमभादस्य, माऽऽशाग्रंशं कृथा वृथा ॥२५॥ एवं प्रतिदिनं पत्न्या, प्रोच्यते स्म स धी मौन्दर्यम. २ संमावनायाम्. ३ स्त्रीवत्र्यः' ४ अष्टोत्तरशालकः (प्र.)५ मन्त्रिविचारान् सारिणः ६ प्रशंसया. ७ शंसयैतत्क० (प्र०) || ८ उदीचीनम्- उत्तराहं (प्र०) :00:0-200025002020 ॥२॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600141
Book TitleSthulbhadra Charitram
Original Sutra AuthorN/A
AuthorJayanandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy