________________
चरित्र
00000000000
:
:v
स्थूल सत्वरं, मांसं च गृद्धो हरति स्म तद्यथा ॥ ७६ ॥ हित्वेहिक वषैयिकं सुखं तथा, येऽमुत्रसौख्यप्रसराय धाविताः । ते ॥२५॥
वञ्चयन्ति स्वमहो सदोभय-भ्रष्टा नरास्तीव्रतपोवतादिभिः ॥७७॥ इति तद्वचनप्रीतो, वाचमूचे मुनीश्वरः । दुःखागारेऽत्र संसारे, सुखांशोऽपि न विद्यते ॥ ७८ ॥ शैत्यं नैव यथा वह्नौ, शौचं नान्त्यजपाटके । नामृतं वा मुखे सापे, संसारे न सुखं तथा ॥ ७९ ॥ विषयात्सुखमियेषा, भ्रान्तिहात्मनां नृणाम् । तृषार्तानां जलमान्तिमगतृष्णासु किं न हि १ ।। ८० ॥ अथवा सौख्यमेवेदं, न स्यान्नीतिरियं यतः । तत्सुखं भण्यते नैव, यदन्ते दुःखसंगमः ।। ८१ ॥ तामस्वर्णाभरणाभं, गुडलिप्तदृषत्समम् । मधुबिन्दूपमं वापि, सुखं विषयसंभवम् ॥२॥ दुःखं मेरूपमं यत्र, सुखं सर्षपसन्निभम् । विषयास्ते सुखं प्रोक्ता, लोकैर्निन्दितदीपवत् ।। ८३ ॥ श्वाऽस्थि शुष्कं मुखे लात्वा, क्षिप्त्वा पादद्वयान्तरे । लिहन् लालां निजां मूढो, मन्यते रसनिर्गमम् ॥ ८४ ॥ एवं कामातुरः प्राणी, स्वशोषं पोवसन्निभम् । मन्यमानो महामोहललितं धिगिदं नृणाम् ॥ ८५ ॥ येभ्यः क्षयादयो रोगाः, श्वादेः साधारणाश्च ये । न तृप्तो जायते यैस्तु, जन्तुरङ्गारकृद्यथा ॥ ८६ ॥ यतः-असुरसुरपतीनां यो न | भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेषु तृप्तिः । जलनिधिजलपानाद्यो न जातो वितृष्णस्तृणशिखरगताम्भःपानतः किं स तृप्येत् ॥ ८७ ॥ इत्येतान् विषयान् दुःखरूपान् संकल्पनासुखान् । परित्यज्य परब्रह्मसुखास्वादे रतिं कुरु ॥ ८८ ॥ यतः- अविदितपरमानन्दो, वदति जनो विषय एव रमणीयः । तिलतैलमेव मिष्टं, येन न दृष्टं घृतं क्वापि ॥ ८९ ॥ तृणं ब्रह्मविदां
स्वर्गस्तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी, निरीहस्य तृणं नृपः ॥ ९० ॥ भूयो जगाद सा स्वामिन् !, शृणु सत्यं । 19 वचो मम । प्रस्तावे विहितं कार्य, सर्व संजायते शुभम् ॥ ९१ ॥ फलन्त्यवसरे वृक्षा, विनाऽपि जलसेचनम् । वारिया
xe sensio gio :)
२५॥
-
43:30
-
Jan Education Internet
For Private & Personal use only
WWWnelibrary.org