SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ स्थूल 1 चरित्रं ॥१४॥ ॥ ९८ ॥ शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः ? । उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिका ? ॥ ९८ ॥ | योऽहं हुङ्कारमात्रेण, विजेतुं विश्वमप्यलग् । अहम्पूर्विकया यं मां, सेवन्ते देवदानवाः ॥ ९९ ॥ तस्य मे पुरतः कोऽयं, | यतिनूतनतापसः । यन्मयाऽसौ जितः पूर्व, तद्विरमार्याययौ जडः ? ॥१०० ॥ इति कोवोन्चुरो यावद्योन्मुत्तिष्टते स्मरः । रतिः ससंभ्रमा तावत्, पप्रच्छ क्रोधकारणम् । १॥ सोऽपि संक्षेपतस्तस्योदन्तं तं मूलतोऽब्रवीत् । रिपूत्कर्षे हि सावज्ञं, मनः पायो मनस्विनाम् ॥ २ ॥ वृत्तान्तं तं समाकर्ण्य, साऽप्यमद्विस्मिता तदा । दृष्टे श्रुते वा नव्येऽर्थे, विस्मयी को न जायते ? ॥ ३ ॥ पुनर्विचार्य चतुरा, स्मरं स्माह रतिस्तदा । नाथ ! वारिपूमाथे !, विचारय वचो मम ॥ ४ ॥ को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति । भैरमने भरमसात्कुर्यात् , को हि चन्दनकाननम् ॥ ५॥ एकस्य नरमात्रस्य, कृते जन्मार्जितं यशः । हारयेत्को बुधो ? यस्माद्, युद्धस्य विषमा गतिः ॥६॥ यतः-पुष्पैरपि न योद्धव्यं, किं पुनर्निशितायुधैः ? । युद्धे विजयसंदेहः, प्रधानपुरुषक्षयः ॥ ७ ॥ अतश्चनं यतिं विप्रं, मर्मज्ञं स्वगृहागतम् । मुञ्च मुञ्च विनाऽप्येनं, विश्वं जेता यतो भवान् ॥८॥ पादस्यैकस्य भङ्गे किं ! खजः शतपदी भवेत् । बिन्दोरेकस्य शोषे किं, न्यूनोऽपि स्यान्महाम्बुधिः ? ॥ ९॥ एवं तस्या वचः श्रुत्वा, पुनः मोवाच मन्मथः । मुग्धे । बाई विमूढाऽसि, न तत्वज्ञाऽसि सर्वथा ॥ १० ॥ छिद्रे स्वल्पेऽपि पोतः किं, पायोधौ नैव मज्जति ? । न दुर्गो गृह्यते धीरैर्दुर्गाशे पातितेऽपि किम् ? ॥ ११ ॥ एकस्मिन्नजिते शत्रौ, सर्वमप्यजितं भवेत् । एकदापि सती लुप्तशीला स्यादसती सदा ॥ १२ ॥ १ शत्रुपराक्रमे २ विहितशत्रुमर्दन ! ३ क्षाराय ४ दह्यात् ५ तीक्ष्णप्रहरणैः anna For Private & Personal use only www.janelibrary.org
SR No.600141
Book TitleSthulbhadra Charitram
Original Sutra AuthorN/A
AuthorJayanandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy