________________
Jain Education In
प्रत्याख्यानं स्यात्, अतः श्रावकस्य निर्विषयं प्रत्याख्यानं कथं कथ्यते ? विमृश भवद्वचोऽयुक्तमेवेति तच्चम् |
भगवं च णं उदाहु संगतिया समणोवासगा भवति, तेसिं च णं एवं वृत्तपुत्रं भवइ-नो खलु वयं संचाएमो मुंडे भवित्ता जाव पवइत्तए, नो खलु वयं संचाएमो चाउद्दसमुद्दिट्ठपुण्णमासिणी परिपुर्ण पोसहं अणुपालित्तए, नो खलु वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं णं सामाइयं देसावगासियं पुरत्थापाईणं वा पडीणं वा दाहिणं वा उदीणं वा एतावता जाव सव्वपाणेहिं जात्र सङ्घसत्तेहिं दंडे निखित्ते, सव्वपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि ।
व्याख्या -भगवानाह इत्यादि सुगमम् । यावत् 'वयं णं सामाइयं देसावगासियं ति देशावका शिकं पूर्वगृहीतस्य दिग्व्रतस्य योजनशतादिकस्य [य]त्प्रतिदिनं संक्षिप्ततरं योजनगन्यूतपचनगृहमर्यादादिकं परिमाणं विधत्ते तदेशाव काशिकमित्युच्यते, तदेव दर्शयति 'पुरस्थापाईण' मित्यादि, प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवम्भूतं प्रत्याख्यानं करोति, तथाहि - ' प्राचीनं ' पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यं, तथा 'प्रतीचीनं ' प्रतीच्यां - अपरस्यां दिशि तथा दक्षिणाभिमुखं दक्षिणस्यां तथोदीच्यामुत्तरस्यां वा दिश्यैतावन्मयाऽद्य गन्तव्यमित्येवम्भूतं स प्रतिदिनं प्रत्याख्यानं विधचे, तेन च गृहीतदेशावकाशिकेन श्रावकेण सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो ' निक्षिप्तः ' परित्यक्तो भवति, ततश्वासौ श्रावकः सर्वप्राणभूत जीवसच्चेषु क्षेमङ्करोऽहमस्मीत्येवमध्यवसायी भवति ।
For Private & Personal Use Only
www.jainelibrary.org