________________
Jain Education Int
आहारं आहारेति इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति ॥ ३ ॥
व्याख्या - अथैकः कश्चिदागन्तुकस्य पथिकादेर्धनवतः प्रातिपथिकमावं प्रतिपद्यते - सम्मुखं गत्वा प्रच्छन्नो मार्ग बद्धवा तिष्ठति, ततः प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति ॥ ३ ॥
से एगतिए संधिच्छेदगभावं पडिसंधाय तमेव संधिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं वक्खाइत्ता भवति ॥ ४ ॥
व्याख्या - एकः कश्चित्पुरुषो विरूपकर्म्मणा जीवितार्थी ' सन्धिच्छेदकभावं ' खत्रखननत्वं प्रतिपद्यते, ततोऽसौ ' सन्धि छिन्दन् ' खात्रं खनन् प्राणिनां हन्ता छेता मेत्ता भवतीत्येतच्च कृत्वाऽऽहारमाहारयतीत्येवमसौ महद्भिः पापकर्मभिः संसारे भ्रमति ॥ ४ ॥
से एगतिए गंठिच्छेद [ग]भावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अप्पाणं उवक्खाइत्ता भवति ॥ ५ ॥
व्याख्या—अथ कश्चित्पापकर्मकारी घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेव हन्ता छेत्ता यावत् परद्रव्यमादाय कर्मबन्धं करोति, ततः संसारे पर्यटतीति पूर्ववत् ॥ ५ ॥
Foy Private & Personal Use Only
www.jainelibrary.org