SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सूयगडाझ सूत्र १ समयाध्ययने संबन्धनिरूपणम्। दीपिकान्वितम् । ॥१॥ तथाहि बुज्झेज तिउद्वेजा, बंधणं परिजाणिया। किमाह ? बंधणं वीरे, किंवा जाणं तिउद्दई ? ॥१॥ व्याख्या-मूत्रमिदं सूत्रकृताङ्गस्यादौ वर्तते, अस्य श्रीमदाचाराङ्गेन महायं सम्बन्धः, श्रीआचाराने चैतत्प्ररूपितं"जीवो छक्कायपरूवणा य, तेसिं वहेण बंधो "त्ति । जीवषट्कायानां च वधेऽष्टकर्मणां बन्धः स्यात् “ एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए, इच्चत्थं गढिए लोए" इति वचनात् । यदि षण्णां जीवनिकायानां वधेऽष्ट कर्मणां बन्ध इत्येतत्सर्व बुद्ध्येत, यदि वा केषाश्चिद्वादिना ज्ञानादेव मुक्तिः, अपरेषां तु क्रियया मुक्तिः, जैनानां तूभाभ्यां निःश्रेयसाधिगमः, तत्रापि ज्ञानपूर्विकैव क्रिया फलवती, नहि केवलेन ज्ञानेन मुक्तिः केवलया क्रियया वा मुक्तिः। यता-" हेयं नाणं कियाहीणं, हया अन्नाणिणो किया। पासंतो पंगुलो दड्डो, धावमाणो य अंधओ॥१॥" तर्हि कथं मुक्तिः स्यादस्योचरं-" संजोगसिद्धीइ फलं वयंती" त्यादिवचनप्रामाण्यादुभाम्यांज्ञानक्रियाभ्यामेव मुक्तिः, इत्यादि बुद्ध्येत अनेन ज्ञानमुक्तं, त्रोटयेदित्यनेन च क्रियोक्ता, तत्रायमर्थो--'बुद्ध्येत' अवगच्छे. द्वोधं विदध्यात् । किं बुद्ध्येत ? 'बंधणं' बन्धनं ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः, मिथ्या १ एष खलु ग्रन्थ एष खलु मोह, एष खलु मार एष खलु निरय, अत्रार्थे गृद्धो लोकः । २ हतं ज्ञानं क्रियाहीनं, हता | अज्ञानिनः क्रिया । पश्यन् पङ्गुलो दग्धो, धावमानश्चान्धकः ॥ १ ॥ ३ संयोगसिद्ध्या फलं वदन्ति । ।॥१॥ Jain Education For Private & Personal Use Only Tww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy