________________
सुन्दरः, पूजादानाघुपचारधात्र विशेषतः कार्यः१४,कृष्णपक्षे ग्लानो मया पथ्यादिदानतः प्रतिचरणीय इत्येवंरूपप्रतिज्ञाप्रधानो निरुजशिखस्तपोविशेषोऽपि सर्वाङ्गसुन्दरवत्तपःप्रमाणतः कार्यः१५, जिनाय तिलकाद्याभरणदानसार एकासनान्तरितद्वात्रिंशदाचाम्लप्रमाणः परमभूषणः१६, अनिगहितबलवीर्यस्य निरन्तरद्वात्रिंशदाचाम्लप्रमाण एवायतिजनकः१७, यत्र चैत्रमासे एकान्तरकासनोपवासः गुरुदानादिपूर्वकं सविकृतिकं भोजनं च पारणके स सौभाग्यकल्पवृक्षस्त्रिंशदिनमानः, समाप्तौ चास्य साध्वादिभ्यो दान देयं यथाशक्ति सुवर्णतन्दुलादिमयस्य च कल्पवृक्षस्य नाना | विधफलभरावनतीकृतशाखस्य स्थापना च कार्या१८, अष्टमत्रयेण ज्ञानदर्शनचारित्रतपः कृष्णप्रतिपदि प्रारब्धः शुक्लपूर्णिमायां समाप्यत इति१९, वजमध्यं चन्द्रायणं कृष्णप्रतिपदि पश्चदश कवलान् गृहाति, ततःप्रतिदिनमेकैककवलहानिस्ताव यावदेकोऽमावास्यायां शुक्ल प्रतिपदि च, तदन्वेकैकवृद्ध्या पूर्णिमायां पञ्चदश गृह्णाति२०, शुक्लपतिपद आरभ्यैकोत्तरकवलवृद्ध्या पौर्णिमास्यां पञ्चदशचन्द्रकलावृद्धिवत् पञ्चदश कवलाः, कृष्णप्रतिपद्यपि पञ्चदश, तत आरभ्यैकैकहान्याऽमावास्यायां यावदेकः कवल इति यवमध्यं चन्द्रायणम्२१, उभयोरपि मासद्वयेन समाप्तिरिति. तत्समाप्तौ च चैत्ये रूप्यमयचन्द्रप्रदान कार्य, तथा यवमध्ये द्वात्रिंशद् यवाः सुवर्णमयाः, तथा वजमध्ये वज्रं च।
2
Jain Education in
For Private & Personal use only
अ
w w.jainelibrary.org