________________
नपि नापि स्वयम्भूः । खला एव विज्ञाश्चरित्रे खलानां भुजङ्गप्रयातं भुजङ्गा विदन्ति ॥ १२ ॥ उपकृतं बहु यत्र किमुच्यते, सुजनता प्रथिता भवता चिरम् । विदधदीदृशमेव सदा सखे, सुखितमास्व ततः शरदां शतम् ॥ १३ ॥ न विना परवा| देन, हृष्टो भवति दुर्जनः । काकः सर्वरसान् पीत्वा, विनाऽमेध्यं न तृप्यति ॥ १४ ॥ शाठ्यं ह्रीमति वर्ण्यते व्रतरुचौ दम्भः शुचौ केतवं, शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेदिह सतां यो दुर्जनैर्नाङ्कितः १ ॥ १५ ॥ दुर्जन दूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः । बालः पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ १६ ॥ विकारमुपकारोsपि, कुरुते समयं विना । अकालोपस्थिता वृष्टिर्महारिष्ठाय जायते ॥ १७ ॥ दुर्जनः कालकूटं च ज्ञातमेतौ सहोदरौ । अग्रजन्मानुजन्मा च न विद्मः कतरोSनयोः ॥ १८ ॥ कण भोगभृतां मूर्ध्नि, साधु नाधत्त यद्विधिः । सकर्णः कोऽनुकुर्वीत, मर्मावित्कर्म तादृशम् ? ॥ १९ ॥ नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । जनप्रतारणायैव, दारुणा केन निर्मिता ॥ २० ॥ नव्याऽऽश्रयस्थितिरियं तव कालकूट !, केनोत्तरोत्तरविशेषपदप्रतिष्ठा । प्रागर्णवस्य हृदये वृषलक्ष्मिणोऽथ, कण्ठे पुनर्वससि वाचि ततः खलानाम् ॥ ॥ २१ ॥ वृश्चिकानां भुजङ्गानां, दुर्जनानां च वेधसा । विभज्य नियतं न्यस्तं विषं पुच्छे मुखे हृदि ॥ २२ ॥ निर्माय खलजिह्वाग्रं, सर्वप्राणहरं नृणाम् । चकार किं वृथा शास्त्रविषत्रह्नीन् प्रजापतिः ॥ २३ ॥ अहो खलभुजङ्गस्य, कोऽप्यपूर्वो वधक्रमः । अन्यस्य लगति श्रोत्रे, प्राणैरन्यो विमुच्यते ॥ २४ ॥ अहो राहुः कथं क्रूरश्चन्द्रं गिलति मुञ्चति ? । गिलन्ति न हि मुञ्चन्ति, दुर्जनाः सज्जनत्रजम् ॥ २५ ॥ आजन्मसिद्धं कौटिल्यं, हलस्य च खलस्य च । सोढुं ययोर्मुखाक्षेपमलमे
Jain Education rational
For Private & Personal Use Only
www.jainelibrary.org