SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश मूलम्. प्रकरणम् ॥१०॥ भृतका अपि कर्तव्या य इह विशिष्टाः स्वभावतः केचित् । यूयमपि गोष्टिका इह वचनेन सुखं तु ते स्थाप्याः॥१०॥ अतिसन्धानं चैपां कर्तव्यं न खलु धर्ममित्राणाम् । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ॥ ११॥ देवोद्देशेनैतद्वहिणां कर्तव्यमित्यलं शुद्धः। अनिदानः खलु भावः खाशय इति गीयते तज्ज्ञैः॥ १२॥ प्रतिदिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात् । एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये ॥ १३ ॥ एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गवीजमिति ॥ १४ ॥ देयं तु न साधुभ्यस्तिष्ठन्ति यथा च ते तथा कार्यम् । अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम् ॥१५॥ यतनातो न च हिंसा यस्मादेव तन्निवृत्तिफला । तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ॥१६॥६॥ जिनभवने तद्विम्नं कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद्भवति ॥१॥ जिनविम्बकारणविधिः काले पूजापुरस्सरं कर्तुः । विभवोचितमूल्याऽर्पणमनघस्य शुभेन भावेन ॥२॥ नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति । काले च दानमुचितं शुभभावेनैव विधिपूर्वम् ॥३॥ चित्तविनाशो नैवं प्रायः सञ्जायते द्वयोरपि हि । अस्मिन् व्यतिकर एप प्रतिषिद्धो धर्मतत्त्वज्ञैः॥४॥ एप द्वयोरपि महान् विशिष्ट कार्यप्रसाधकत्त्वेन । सम्बन्ध इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति ॥५॥ यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित् । तद्विम्बकारणानीह तस्य तावन्ति तत्त्वेन ॥ ६ ॥ Jain Education international For Private & Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy