________________
संग्रहणीवृ.
॥ ३ ॥
“ यदुक्तं — गुरुबन्धुविनयचन्द्रोपाध्यायकशिष्यं स नेमिचन्द्रगुरुः । यं गणनाथमकार्षीत्स जयति मुनिचन्द्रसूरिरिति ॥ १॥ ( धर्मसागरीय पावलि) इत्याद्यनेकेषु ग्रन्थेषु दर्शनात् सुप्रतीत एवेत्यलमतिपल्लवितेन, विशेषार्थिभिस्ते ते ग्रन्था विलोकनीया इत्यभ्यर्थना । एतत्संशोधनसमये पुस्तकद्वितयमासीत्, एकं तु तावदस्मदीयमेव । द्वितीयं तु साक्षरवर्ण्यप्रज्ञांश ( पंन्यास ) पदाञ्चित श्रीमदानन्दसागराणां । आदर्शद्वयमपि पुरातनं शुद्धं च । एतत् पुस्तकद्वयाधारेण ख्यातिकारकमुनिमहाशयातुलसाहाय्यप्रागूभारेण च संशोधितेऽप्यस्मिन्निबन्धे, कृतेऽपिच महत प्रयत्ने ऽस्मष्टिदोषेण छाद्मस्थ्यापराधेनाक्षयोजकप्रमादाद्वा यदि वचन कदाचिदशुद्धिः स्थिता जाता वा भवेत् तदा शोधयन्तु परोपकृतिकर्मठा धीधनाः । इति प्रार्थयते
Jain Education International
श्रीमद्विजयानन्दसूरिसन्तानीय श्रीमद्वल्लभविजयमुनीशचरणसरोरुहचञ्चरीकः
ललितविजयो मुनिः ।
भूनि 'निधिविधुवर्षे राधे मासि वलक्षपंचस्याम् बर्बरकूले रचिता प्रशस्तिका ललितविजयेन ॥ १ ॥ भद्रं भवतु सकलश्री श्रमण संघस्य.
क्षिति-सप्तति-निधि-विधु - मिते ( १९७१ ) विक्रमाब्दे विधु - वेर्दे-ति- नेत्रतमे श्रीवीर ( २४४१ ) संवत्सरे नन्देन्दुसंज्ञे आत्मसंवत्सरे श्रीमद्विजयकमलसूरिराज्येप्रवर्तमाने माधवमासवलक्षपंचमीघले बर्बरकूले ( बिल्लीमोराप्रामे ) लिखितेयं शस्ता प्रशस्तिः ।
For Private & Personal Use Only
उपोद्घातः.
॥ ३ ॥
www.jainelibrary.org