________________
उपोद्घात.
संग्रहणी.
नापारयते तदधस्तनी रेणुमपि समानैषुः । ते च ज्वरादिषु व्याधिषु तद् भस्म तां धूली च यस्य रोगिणः प्रयुञ्जते स्म तस्य ते रोगास्तरक्षणा18| देव नाशं गता इति श्रूयते ! । एतेन कीकूप्रभावोऽयं मुनिप्रवर आसीदिति निश्चेयं विपश्चिद्भिरिति । ॥२॥
तत्पट्टे श्रीहेमचन्द्रसूरयः । एतेषां सकलसद्गुणविशिष्याःशिष्याः श्रीहेमचन्द्रमूरयो मल्लधारिण आसन् । एषां सत्तासमयश्च विक्रमीयद्वादशशताब्दीरूपः स्फुटतया । प्रसिद्ध एव । एते खलु महाशयाः सप्तत्यधिकैकादशे शते वैक्रमे हायने (११७१) भवभावनावृत्ति निबबन्धुः। एतदतिरिक्ता अनेके ग्रन्था अनेन
महामुनिना निर्मिताः, तेषु जीवसमासः उपदेशमाला पुष्पमाला वृत्तिः शतकवृत्तिःमूलावश्यके पञ्चसहस्री वृत्तिः विशेषावश्यके अष्टाविंशतिसहस्रश्नोकमिता वृत्तिः, अनुयोगद्वारसूत्रटीका चेत्यादयोऽप्यनेके ग्रन्था एतद्रचिता जगति प्रसिद्धा दरिदृश्यन्ते, एतेनैतेषामाचार्याणां महाविद्वत्ता स्पष्टं प्रतीयते । एते सिध्धराजजयसिंहस्य तथा सन्माननास्पदतां लेभिरे यथा स महोदयः समुपलभ्यमानोपदेशपीयूषपानं व्याख्यानं स्वयं समुपसृत्य लोकोत्तरं लाभं समाससाद । अमी मुनिवर्या विधाय महोन्नतिं श्रीजैनशासनस्यावसाने संपाद्य संपाद्यमानदुरितविनाशनमनशनं संख्यातीतमहर्षिनिर्वृत्तिपवित्रे श्रीशत्रुञ्जयगोत्रे मानवलीला संहृत्य स्वर्लोकमलंचक्रुः ।
तत्पट्टे श्रीचंद्रमूरयः । एतेषां सत्तासमयोऽपि विक्रमीयद्वादशशताब्दीरूप एव । त्रिनवत्त्युत्तरैकादशशते (११९३) विक्रमसंवत्सरे यदैते भृगुकच्छ (भरुच ) मगारं विभूषयांबभूवुः, तदा नगरश्रेष्ठी धवलशाहः ससंघस्तान मुनिसुव्रतस्वामिनां पवित्रं चरित्रं रचयितुं प्रार्थयांचने । तत एते तत् स्वीकृत्याऽऽशावल्यामागत्य च श्रीमालकुलभूषणस्य नागिलनाम्नः श्रावकस्योपाश्रयमुपाश्रित्य तं ग्रन्थं विरचयांचक्रुः । तस्य ग्रन्थस्य प्रथम पुस्तकं पार्श्वदेवगणिना लिखितमिति श्रूयते ।
SROCCACCORRECRUCCESS
Main Education inte
For Privale & Personal use only
im.jainelibrary.org