SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ STA संग्रहणी. तथा-श्रीप्रश्नवाहनकुले, कोटिकनामनि गणे जगद्वन्द्ये । श्रीमध्यमशाखायां वंशे श्रीस्थूलिभद्रमुनेः॥ उपोद्धातः. इति-चतुर्विशतिप्रबन्धन्यायकन्दलीवृत्त्यन्ते लिखितवृत्तद्वितयेन विशदीभवति पूज्यानां "हर्षपुरीय” इतिगच्छस्य, प्रभवाहनेति कुलेन, कोटिकेति गणेन, मध्यमशाखया च सम्बन्धः इति । अपिच-श्रीकोटिकाख्यगणभूमिरुहस्य शाखा, या मध्यमेति विदिता विटपोपमाऽस्याः । श्री "प्रश्नवाहन" कुले सुमनोऽभिरामः ख्यातोऽस्ति स्वच्छ इव " हर्षपुरीय" गच्छः ॥१॥ तत्राऽजनि श्रुतसुधाम्बुधिरिन्दुरोचिःस्पर्धिष्णुकीर्तिविभवो "ऽभयदेवसरिः"। शान्तात्मनोऽप्यहह निःस्पृहचेतसोऽपि, यस्य क्रियाऽखिलजगज्जयिनी बभूव ॥२॥ बद्धक्रीड इवावतीर्य परमज्योतिर्विवर्तः क्षिती, तत्पट्टे वरचन्द्रमाः समजनि श्रीहेमसूरिप्रभुः।" चित्रं यद्वचनामृतानि नृपतिः "श्रीसिद्धराजः" पपौ, विश्वेषामपि लेमिरे तनुभृतामायूंषि वृद्धिं पुनः ॥ ३ ॥ तस्य पदे मदनादिद्वेषी जयी “ विजयसिंह " सूरिरभूत् । यद्वपुषि स्पर्धाभूल्लावण्यामृतशमामृतयोः ।। " श्रीचन्द्रसूरि" रभवत्तदा तदीयपदभूषणं गुणकनिधिः । विद्यायाश्च मदस्य च येन वितेने चिरवियोगः ॥ ४॥ इति पाण्डवचरितप्रान्तलिखितप्रशस्तिदर्शनात्सुगृहीतनामधेयानां निर्णीयते खल्वेषां वंशदीपिका "हर्षपुरीय" इतिनाम्ना ख्यातस्यापि | पूज्यवंशस्य " श्रीमदभयदेव" सूरिभ्य आरभ्य “ मलधार” इतिसंज्ञान्तरं संप्रवृत्तं, अथ च के श्रीमदभयदेवसूरयः प्रस्तुतोपाधिधारकाः ? | इति प्रश्ने समुपस्थिते यद्यपि सर्वथा समाधातुं न शक्यते तथापि किञ्चित् व्यज्यते, श्रीप्रश्नवाहनकुलाम्बरनभोमणीकल्पानां पूज्य "श्रीमजय-12 Jain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy