________________
॥३८
गुणानुगगित्वं, निममत्वं. साम्य रम्यत्वं, सर्वाभिमुखत्वं, निर्भयत्वं, निर्दोषत्वं, सकलत्रैलोक्यऽपि नान्ये च देवासुरनरे. अत एव त्रैलोक्यऽप्यलोकिकातिशायिगुणगणगरिशास्तत एव सर्वत्र लब्धमहाप्रतिष्ठाः, सर्वत्र विहितविवेकविविधकार्याः, सर्वत्रोचित्याचरणचतुराः, सत्स्वपि सर्वोत्तमजातिकुल रूपवलप्रभुत्वसंपत्यादिषु विकारकारणेषु सर्वत्राप्यकलितविकाराः, ये चानन्तदुःखमुखं स्थैयविमु
वं विषयसुखं जानन्तोऽपि तथाविधपाग्भवनिवदभोगफलकर्मवला सञ्जन्ति प्राज्यसाम्राज्यश्रियं तदापि विरसावसानभोगाभियोगSo विमुखा निरुपमवैराग्यरङ्गसंगता भवन्ति, यदुक्तम्-यदा मरुन्नरेन्द्रश्री-स्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि
ते॥१॥न संसारे सा कापि सारा रम्या च भोगादिसंपद्, या तेषां मनो रन्जयति, न तत्किश्चिद्वस्तु वस्तुतया सारं संसारे, यत्र तन्मनो याति विस्तारं, तथाऽपि यथाविधिसाधितपुरुषार्थत्रयाश्चतुर्थपुरुषार्थपरब्रह्मपदसाधनसमयविदोऽपि पञ्चमब्रह्मकल्पवासिभिलोकान्तिकसुरैरागत्य ज्ञाप्यते संवत्सरदानसमयं, स्थितिरियं-यथा प्रभातसमये स्वयमुत्थितोऽपि नृपः शापणवजयजयादिरवैः प्रबोध्यते, ततः कारयन्ति ग्रामपुरपत्तनेषु वरवरिकां वादित्रपूर्विका इच्छितं दीयते इति सांवत्सरिकमहादानोद्घोषणां, ततः प्रवर्तते सुवर्णरत्रमाणिक्यवस्त्राभरणगजतुरङ्गमादिभिर्येषां सांवत्सरिकं महादानं सकललोकसाधारणकृपाप्रधानं, ततः कारितायामर्णव मेखलायामनृणायामवन्या रणरणयति सर्वत्र यश-कीर्तिपटहो, येषां दीक्षासमयमवधिनाऽवगम्य समागच्छन्ति चतु:पष्टिः सुरेन्द्राः सपग्विाराः, कुर्वन्ति सर्वदा सर्वप्रकारैरष्टाहिनका दीक्षामहामहोत्सवं, ततः स्वयंगृहीतदीक्षा विज्ञातसकलशिक्षा
॥३८
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org