SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सटीकवैराग्यशतकादि ॥२॥ RISHIRTSPROSSESSE महोपाध्यायानां शिष्यवरा इमे वृत्तिकारपूज्याः, सप्तचत्वारिंशदधिके षोडशे शते च वैक्रमाब्दे विनिर्मितेयं वृत्तिरिति । एतेन सत्ता-13 ग्रन्थप ग्रन्थपश्चकसमयोऽप्येषां पूज्यानां सप्तदशशताब्द्या मध्यकालीनः सुस्पष्ट एव । तस्योपक्रमः विहायैतां वृत्तिमेते निम्नोल्लिखिताः समुपलभ्यन्तेऽन्येऽपि ग्रन्थाः श्रीमद्वृत्तिकृत्कृताः । १-खण्डप्रशस्तिकाव्यस्य हनुमानकविकृतस्य वृत्तिः, शशिसंज्ञारसेन्दु(१६४१)मिते वैक्रमे सूत्रिता । २-रघुवंशकाव्यवृत्तिः, विक्रमाद्रसवेर्दैजीवनिकायेन्द्(१६४६)हायने निर्मिता। ३-नलदमयन्तीकथायात्रिविक्रमभट्टकृतायाष्टीका, तस्मिन्नेवाब्दे (१६४६)गुम्फिता। *४-सम्बोधसप्ततिकावृत्तिः, शशिशेरजीवनिकायेन्दु( १६५१)मिते वैक्रमे सन्दृब्धा । ५-कर्मचन्द्रवंशावल्याः स्वगुरुनिर्मितायाष्टीका, रसबाणेदर्शनेन्द्( १६५६)मिते वैक्रमाब्दे निर्मिता । ६-विचाररत्नसंग्रहः ।, मुँनिबाणरसेन्र्यु( १६५७ )मितेऽब्दे वैक्रमीये दृब्धः। 1 जैनग्रंथावल्या ३३५ तमे पृष्ठेऽस्या गुणविजयकृतित्वेनोल्लिखनं प्रामादिकं भ्रामिकं वेत्यनुमीयते, जावालिपुर(जालोर)दुर्गे यतिवर्यश्रीपूनमचन्द्रचित्कोशीयप्रती कर्तृत्वेनैतेषामेव वृत्तिकृतां नामोल्लेखस्य मदृष्टत्वात् । द्रा । एतदर्थेऽपि 'जैनग्रंथावल्यां' ३३४ तमे पृष्ठे 'दमयन्तीचम्पूवृतिर्गुणविजयगणिकृतें'त्युल्लिखितं परं प्रामादिकं भ्रामिकं वाऽनुमीयते, यतोऽनवरतं ग्रन्थसंशोधने कृत| परिश्रमैः श्रीमच्चतुरविजयमुनिपुङ्गवैः सम्बोधसप्तत्युपोद्धाते जैनग्रंथावल्यामपि च २१० तमे पृष्ठे टिप्पण्यां एतद्भन्थटीकाकृत्कृतितयैवोल्लिखितम् । * मुद्रितपूर्वा एतचिह्नाङ्किता ग्रन्थाः, शेषा अमुद्रिता इति। ॥२॥ यजैनग्रंथावल्या १३० तमे पृष्ठे श्रीमजयसोममहोपाध्यायानां कृतितयोल्लिखनमस्य ग्रन्थस्य प्रामादिकं भ्रामिकं वेत्येवानुमीयते, प्रागुक्तमुनिपुङ्गवैजैनग्रंथावल्या४ मपि च २१० तमे पृष्ठे टिप्पण्या एतद्भन्थवृत्तिकृत्कृतित्वेनैवोल्लिखितत्वात् । ज्ञायते जैनग्रन्थावलीतो यदुतास्त्ययं ग्रन्थो राजनगरे, परं नोपलब्धो गवेषितोऽपि तत्र । Jain Education a l For Private &Personal use Only delinelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy