________________
क्रमाणां - अंहीणां नखा-नखराः, तेभ्यो निर्गता याः प्रभाः कान्तयः, तेषां दण्डाः सम्मिलितरुचिप्रपञ्चाः । उल्लासिन-ऊर्ध्व | | मुखं गच्छन्तो ये क्रमनखनिर्गतप्रभादण्डाः, तेषां छलं - व्याजः, तेन । यः किल यं मार्ग दर्शयति स तदभिमुखं दण्डादिकं व्यापार्य दर्शयति, ततो भगवतोरपि ऊर्ध्वोल्लसत्पदनखकिरणदण्डौ प्रणमतः प्रति मुक्तिमार्ग ऊर्ध्वं वर्तमानं दर्शयन्ताविवोत्प्रेक्ष्यते । तथा पुनः कीदृशौ ?, निर्यज्ज्ञानाङ्करोत्करौ, ज्ञानस्याङ्कुरा ज्ञानाङ्कुराः, तेषां उत्करः- समूहः, निर्यन्-निर्गच्छन् ज्ञानाङ्कुरोत्करौ यकाभ्यां तौ निर्यज्ज्ञानाङ्कुरोत्करौ । कस्मात् ?, कुन्देन्दुज्वलदन्तकान्तिमिषतः । कुन्दं माध्यं पुष्पं, इन्दुश्चन्द्रः, तयोरिवोज्ज्वलाः- शुभ्रा ये दन्ता-रदास्तेषां कान्तिः - प्रभा, तस्या मिषं - व्याजः, तस्मात् । एतेन भगवतोर्ज्ञानक्षेत्रत्वमुक्तं स्यात् ॥ १ ॥
भगवत्स्तुतिप्रतिज्ञां [प्रतिज्ञाय ] स्वस्य रामसिक्यविलसितं दर्शयितुं भगवत्स्तुताव सामर्थ्यमाह - चरमजलहिनीरं जो मिणिज्जंजलीहिं, खयसमयसमीरं जो जिणिज्जा गईए ।
( चरमजलधिनीरं यो मिनुयादञ्जलिभिः, क्षयसमयसमीरं यो जयेद्गत्या । )
Jain Education International
सयलनह्यलं वा लंघए जो परहिं, अजियमहव संतिं सो समत्थो धुणेउं ॥ २ ॥ - मालिनी ( सकलनभस्तलं वा लङ्घयेद्यः पदैः, अजितमथवा शान्ति स समर्थः स्तोतुम् ॥ २ ॥ )
१ “माघे भवं माध्यम्” इत्यमरवृत्तौ । २ "ननमयययुतेयं मालिनी भोगिलोकैः ॥ ८४ ॥” यतिरिति वृत्तरत्नाकरे तृतीयेऽध्याये ।
For Private & Personal Use Only
नगणः-नगणः- मगणः- यगणः- यगणः ।। 111 sss Iss ISS
अष्टभिस्तभिश्च
www.jainelibrary.org