________________
रूवाईअसहावो केवलसन्नाणदंसणाणंदो । जो चेव य परमप्पा सो सिद्धप्पा न संदेहो ॥ १३२८ पंचप्पत्थाणमयायरियमहामंतझाणलीलमणो । पंचविहायारमओ आयच्चिअ होइ आयरि ॥ महपाणज्झायदुवालसंगसुत्तत्थतदुभयरहस्सो । सज्झायतप्रपा एसप्पा चेव उवज्झाओ ॥ १३३० ॥
रूपं पौद्ङ्गलिंकं, रूपं अतीतः अतिक्रान्तः स्वभावो यस्य स तथा अत एव केवलाः - परिपूर्णाः सज्ज्ञानदर्शनानन्दा यस्य स तथाभूतो य एव परात्मा स सिद्धात्मा उच्यते नात्र सन्देहः ॥ १३२८ ॥ पञ्चप्रस्थानमयो यः आचार्यसम्बन्धी महामन्त्रः- प्रधानमंत्रस्तस्य ध्याने लीनं मनो यस्य स तथा पुनः पञ्चविधो यः आचारः स प्रधानं यस्य सः तथाभूतः आत्मा एव आचार्यो भवति, पञ्च प्रस्थानानि च विद्यापीठ १ सौभाग्यपीठ२ लक्ष्मीपीठ ३ मन्त्रयोगराजपीठ४ सुमेरुपीठ५नामानि एषामर्थस्तु सूरमन्त्रकल्पात् ज्ञेयः, भावध्यानमालाप्रकरणे तु अन्यथा पञ्च प्रस्थानान्युक्तानि, तथाहि - अभय प्रस्थानं १ प्रकरण प्रस्थानं२ अहमिन्द्रप्रस्थानं ३ तुल्यप्रस्थानं४ कल्पप्रस्थानं५ चेति, एषां पञ्चानां स्वामिनः पञ्चपरमेष्ठिनः इत्यादि ।। १३२६ ।। महाप्राणेन-ध्यानविशेषेण ध्यातं चिन्तितं द्वादशाङ्गानां सूत्रस्य अर्थस्य तदुभयस्य च रहस्यं येन स तथा पुनः स्वाध्याये - वाचनादिपञ्चप्रकारे तत्पर आत्मा यस्य स तथाभूत एष आत्मा एव उपाध्यायः ।। १३३० ||
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org