________________
सिरिसिरि.: किं बहुणा मगहेसर ! एयाण पयाण भत्तिभावेणं । तं आगमेसि होहिसि तित्थयरो नत्थि संदेहो ॥ वालकहा ।
तम्हा एयाई पयाई चेव जिणसासणस्स सव्वस्सं । नाऊणं भो भविया ! आराहह सुद्धभावेण ॥ ११४८॥ एयाई च पयाइं आराहताण भव्वसत्ताणं । हुतु सयावि हु मंगलकल्लाणसमिद्धिविद्धीओ ॥
एवं तिकालगोअरनाणे सिरिगोयमंमि गणनाहे । कहिऊण ठिए सेणियराओजा नमवि मुणिनाहं ।। उदेइ तओ हरिसियचित्तो ता तत्थ कोवि नरनाहं । विन्नवइ देव ! वद्धाविज्जसि वीरागमेण तुमं ॥
हे मगधेश्वर ! किंबहुना कथनेन , एतेषां पदानां भक्तिभावेन-भक्तिपरिणामेन त्वं आगमिष्यद्भवे तीर्थङ्करो भविप्यसि, अत्रार्थे नास्ति सन्देहः ।। १३१४ ॥ तस्मात् एतानि पदान्येव जिनशासनस्य सर्वस्वं ज्ञात्वा भो भविका ! भो । भव्या वा शुद्धभावेन यूयं आराधयत ।। १३१५ ॥ एतानि च पदानि आराधयतां भव्यसत्त्वानां-भव्यजीवानां सदापि
हु इति निश्चितं मङ्गलकल्याणसमृद्धिवृद्धयो भवन्तु, मङ्गलं-विपदुपशमरूपं, कल्याणं-सम्पदुत्कर्षरूपं, समृद्धिवृद्धयःपरिवारादिवृद्धिरूपा भवन्तु इत्यर्थः ॥ १३१६ ॥ एवं-अमुना प्रकारेण त्रिकालगोचरं-त्रिकालविषयं ज्ञानं यस्य स तथा,
तस्मिन् गौतमे गणनाथे-गणेश्वरे कथयित्वा स्थिते सति श्रेणिकराजो मुनिनाथं नत्वा यावत् ॥ १३१७ ॥ ततः स्थानाव Hउत्तिष्ठति, तावत् हर्षितं चित्तं यस्य स तथाभूतः कोऽपि पुरुषः तत्र प्रदेशे नरनार्थ-राजानं विज्ञपयति, 'हे देव' हेमहाराज! वीरस्य प्रभोरागमेन-अत्रागमनेन त्वं वर्द्धाप्यसे ॥ १३१८ ॥
१४॥
Jain Education Internal
ना
For Private & Personal Use Only
T
ww.jainelibrary.org