SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तत्थ य अरिहंतासु नवसु पएसु ससप्पिखंडाई । नालियरगोलयाई सामन्नेणं ठविनंति ॥११८४॥ तेण पुणो नरवइणा मयणासहिएण वरविवेएण । ताइपि गोलयाई विसेससहियाई ठवियाई ॥ जहा-अरिहंतपए धवले चंदणकप्पूरलेवसिअवन्नं । अडकक्केअणचउतीसहीरयं गोलयं ठविअं ॥ सिद्धपए पुण रत्ते इगतीसपवालमठमाणिकं । नवरंगघुसिणविहिअप्पलेवगुरुगोलयं ठविअं ॥ त्र-सिडचक्रेऽहंदादिषु नवसु पदेषु सामान्येन सर्पिः-घृतं खण्डश्च-मधुधूलिस्ताभ्यां सहितानि भूतानि ससर्पिःखण्डानि नारिकेलफलानि स्थाप्यन्ते ॥११८४॥ तेन पुनर्नरपतिना-राज्ञा श्रीपालेन मदनसुन्दरीसहितेन तान्यपि गोलकानि विशेषवस्तुयुक्तानि स्थापितानि, कीदृशेन तेन ?-वर:-प्रशस्तो विवेको यस्य स तेन ॥११८५॥ कथमित्याह-यथा धवले-धवलवर्णतया व्यस्थापितेर्हत्पदे चन्दनकर्पूरयोलेपनेन सितः-श्वेतो वर्णो यस्य तत्तथा पुनरष्टौ कर्केतनानि-श्वेतरत्नविशेषाश्चतुर्विंशञ्च हीरका यस्मिंस्तत्तथाभूतं गोलकं स्थापितं, अत्रायं भावः-अष्टप्रातिहार्यापेक्षयाष्टौ कर्केतनानि चतुस्त्रिंशदतिशयापेक्षया तावन्तो हीरका इति ।। ११८६ ॥ रक्ते-रक्तवर्णतया व्यवस्थापिते सिद्धपदे, पुनः एकत्रिंशत् प्रवाला-विद्रुमा यत्र तत्तथा पुनरष्टौ माणिक्यानि यत्र तत्तथा, पुनर्नवरङ्गं-नवीनरक्तत्वयुक्तं यद् घुसणं-कुङ्कम तेन विहितः प्रलेपः-प्रकृष्टलेपो यस्य तत् B तथाभूतं गुरु-महत गोलकं स्थापितं, अष्टकर्मक्षयोत्पन्नाष्टगुणापेक्षयाऽष्टौ माणिक्यानि एकत्रिंशद्गुणापेक्षया तावन्तः प्रवाला इति ॥ ११८७॥ For Private & Personal Use Only Jain Education Inter wjainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy