________________
वालकहा
सिरिसिरि. एवं ठिएवि अजवि मारिजइ जइ इमो मए कहवि । ता एयाओ सिरीओ सव्वाओ हुति मह चेव
अन्नं च इत्थ सत्तमभूमीए सुत्तओ श्मो इको । ता हणिऊणं एवं रमणीवि बलावि माणेमि ॥७४८॥ इअचिंतिऊण हिट्ठो धिट्टो दुट्ठो निकिट्ठपाविट्ठो। असिधेणुं गहिऊणं पहाविओ कुमरवहणत्थं ॥ उम्मग्गमुक्कपाओ पडिओ सो सत्तमाउ भूमीओ । छुरिआइ उरे विद्धो मुक्को पाणेहिं पावृत्ति॥७५०॥ सो सत्तमभूमीओ पडिओ पत्तो अ सत्तमि भूमि । नरयस्त तारिलाणं समत्थि ठाणं किमन्नत्थ? ॥
एवं स्थितेऽपि यदि अयं कुमारो मयाऽद्यापि कथमपि केनापि प्रकारेण मार्यते-प्राणवियुक्तः क्रियते तत्-तर्हि एताः सर्वाः श्रियो-लक्ष्म्यो ममैव भवन्ति ॥ ७४७ ॥ अन्यच्च-अत्र-सप्तमभूमौ अयं कुमार एक-एकाकी सुप्तोऽस्ति, तत्-तस्मात्कारणात् एतं कुमारं हत्वा एतस्य तिस्रो रमणीरपि-स्त्रियोऽपि बलादपि मानयामि-भुनज्मि ।। ७४८ ।। इति चिन्तयित्वा स धवलो दृष्टः सन् असिधेनु-चरिको गृहीत्वा कुमारस्य वधार्थ प्रधावितो-हननार्थ चलितः, कीदृशः सः १-धृष्टः पुनर्दुष्टोऽत एव निकृष्ट-अधमः पुनरतिशयेन पाप इति पापिष्टः ।। ७४६ ।। भयत्वरादिवशात् उन्मागर्गे मुक्तौ पादौ येन स उन्मार्गमुक्तपादः सन् सप्तम्या भूमितः पतितः स्वकरस्थया क्षुरिकया उरसि-हृदये विद्धः पापोऽयमितिकृत्वा प्राणैर्मुक्त:-त्यक्तः ॥ ७५० ॥ स धवलः सप्तमभूमितः पतितो नरकस्य सप्तमी भूमि-सप्तमनरकपृथ्वीमित्यर्थः प्राप्तश्च, युक्तोऽयमर्थः यतस्तादृशानां दुष्टानां सप्तमनरकादन्यत्र किं स्थानं समस्ति ?, नास्त्येवेत्यर्थः ।। ७५१ ॥
Jain Education Intelles
For Private & Personel Use Only
Slwww.jainelibrary.org