SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जलहिमि वहताणं पोआणं जाव कइवयदिणाई । जायाई तो पुणरवि धवलो चिंतेइ हिययमि ॥E अत्थि अहो मह पुन्नोदयत्ति जंसो उवदवो टलिओ। फलिया एसाय सिरी सव्वावि सुहण मज्झव ॥ जइ रमणीओ एयाओ कहवि मन्नंति मह कलत्तत्तं। ताऽहं होमि कयत्थो इंदाओ वा समभहिओ॥ इअ चिंतिऊण तेणं जा दुइमुहेण पत्थिया ताओ । ता ताहिं कुवियाहिं दूई निब्भत्थिया बाढं ॥ तहविहु कामपिसायाहिडिओ नट्ठनिम्मलविवेओ। तेणज्झवसाएणं खणंपि पावे नो सुक्ख॥६८६॥ जलधौ-समुद्रे वहतां पोताना-प्रवहणानां यावत् कतिपयानि-कियन्ति दिनानि जातानि ततः पुनरपि धवलो हृदये चिन्तयति, किं चिन्तयतीत्याह ॥ ६८२॥ अहो इति आश्चर्ये मम पुण्योदयोऽस्तीति, कथमित्याह-यद्-यस्मात् कारणात् स:प्रागुक्तस्वरूप उपद्रवष्टालितश्च पुनः एषा सर्वापि श्रीः-लक्ष्मीः सुखेन ममैव फलिता-फलवती जाता, अथ मां विनाऽस्या अन्यः स्वामी क इत्यर्थः ॥ ६८३॥ यदि एते द्वे रमण्यो-स्त्रियौ कथमपि-केनापि प्रकारेण मम कलत्रत्वं-वधूत्वं मन्येते तत्-तर्हि अहं कृतार्थो भवामि-निष्पन्नप्रयोजनः स्यामित्यर्थः, वाऽथवा इन्द्रादपि समभ्यधिकः स्याम् ॥ ६८४ ॥ इति चिन्तयित्वा तेन धवलेन यावत् दूतीमुखेन ते स्त्रियौ प्रार्थिते-प्रार्थनाविषयीकृते तावत् कुपिताभ्यां-क्रुद्धाभ्यां ताभ्यां मदनाभ्यां दूती बाढं-अत्यर्थ निभरिसता-तर्जिता ॥ ६८५ ॥ तथापि हु इति-निश्चितं कामः-कन्दर्प एव पिशाचो-दुष्टव्यन्तरस्तेन अधिष्ठितः-आश्रितोऽत एव नष्टो निर्मलो विवेको यस्य स एवंविधःस धवलश्रेष्ठी तेन अध्यवसायेन-मन-परिणामेन क्षणमपि सुखं न प्रामोति ॥ ६८६॥ For Private Personal Use Only HTwww.jainelibrary.org Jain Education
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy