SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रतिक्र० ॥ २ ॥ चाररूपा गुप्तयः प्रवीचारो व्यापार उच्यते समितयः प्रवीचाररूपा एव तथाचोक्तं “ समिओणियमा गुत्तो समियत्तणंमि भइयव्वो । कुसलवइमुईरन्तो जं वइगुत्तो य समिओ- “नवानां ब्रह्मचर्यगुप्तीनां वसतिकथादीनामासां च स्वरूपमुपरि वक्ष्यामो दशविधे दशप्रकारे श्रमणधम्र्मे क्षान्त्यादिके एषोपि वक्ष्यमाणोऽस्मिन् गुप्त्यादिषु च ये श्रमणानामिमे श्रामणास्तेषां सम्यक्प्रतिसेवन श्रद्धानप्ररूपणालक्षणानां यत्किंचित्खण्डितं देशतो भग्नं यद्विराधितं सुतरां भग्नं न पुनरेकान्ततोऽभावमापादितं तस्य दैवसिकातिचारस्येत्येतावता क्रियाका| लमाह तस्यैव मिच्छामि दुक्कडं इत्यनेन तु निष्ठाकालमाह मिथ्येति प्रतिक्रामामीति दुष्कृतमेतद्कर्त्तव्यमित्यर्थः एतच्चातिचारसूत्रं सामायिकसूत्रानन्तरमतिचारस्मरणार्थमुच्चरितमिह प्रतिक्रमणाय पुरतस्तु पुनरतिचारशुद्धिविमलीकरणार्थमुच्चारयिष्यत इति न पुनरुक्तं । एवमोघाति| चारस्य समासेन प्रतिक्रमणमुक्तं सांप्रतमस्यैव विभागेनोच्यते तत्रापि गमनागमनातिचारमधिकृत्याह “ इच्छामि पडिक्कमिडं इरियावहियाए इत्यादि यावत् तस्समिच्छामि दुक्कडं " अस्य व्याख्या इच्छामि प्रतिक्रमितुमैर्यापथिकायां विराधनायां योतिचार इति गम्यते तस्येति गम्यः । अनेन क्रियाकालमाह । मिच्छामि दुक्कडत्ति अनेन तु निष्ठाकालमिति । तत्रेरणमीर्यागमनमित्यर्थः तत्प्रधानः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिका तस्यां किंविशिष्टायामित्यत आह विराध्यन्ते दुःखं प्राप्यन्ते प्राणिनो यस्यां सा विराधना तस्यां विषयमुपदर्शयन्नाह गमनं चागमनं चेत्येकवद्भावस्तस्मिन्नत्रापि यः कथं जातोतिचार इत्यत आह । प्राणिनो द्वीन्द्रियादयस्त्रसास्तेषामाक्रमणं पादादिना प्राण्याक्रमणं तस्मिन तथा बीजाक्रमणे अनेन बीजानां जीवत्वमाह हरिताक्रमणे अनेन तु सकलवनस्पतेरेव तथा अवस्यायोत्तिङ्गपनकदकमृत्तिकामर्कटसन्तानसङ्क्रमणे सति अत्रावस्यायो जलविशेष इह चावस्यायग्रहणमतिशयतः शेषजलसंभोगपरिहरणार्थमित्येवमन्यत्रापि भावनीयं उत्तिङ्गा गर्दभाकृतयो जीवाः पनक उल्लिः दकमृत्तिका चिरकल्लं अथवा दगग्रहणादप्कायो मृत्तिकाग्रहणात्पृथिवीकायः मर्कटसन्तानः कोलिकाजालमुच्यते तेषां स Jain Education International For Private & Personal Use Only वृत्ति० ॥ २ ॥ www.jainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy