________________
ARR
धर्मलाभोऽस्तु ते नित्यं, धर्मे निश्चलचेतसः । इत्युक्त्वा ते ततोऽन्यत्र, विहर्तुं मुनयो ययुः ॥ ४७ ॥ ब्रह्मसेनोऽथ स! |श्रेष्ठी, धर्म कृत्वा दृढं चिरम् । आराधनाविधेर्मृत्वा, खर्मोक्षसुखभागभूत ॥४८॥ इति भविकजनौघा! मोक्षसौख्यैकहेतुं, भवजलनिधिमजजन्तुनिस्तारसेतुम् । व्रतविसरवरिष्ठं पौषधं भो! विशुद्ध्या(बुद्ध्या)ऽनवरतमतियत्नं तत्र दध्वं सुबुद्ध्या ॥४९॥ (मालिनीवृत्तम्) पौषधे ब्रह्मसेनज्ञातम् ॥ २९॥ __साम्प्रतमतिथिसंविभागाख्यं तुर्य शिक्षाव्रतं, तत्र तिथिपर्वादिलौकिकव्यवहारत्यागाद्भोजनकालोपस्थायी श्रावकस्यातिथिः साधुरुच्यते यदुक्तम् "तिथिपर्वोत्सवाः सर्वे, त्यक्तायेन महात्मना। अतिथिं तं विजानीयात्, छेषमभ्यागतं विदुः॥१॥" तस्यातिथेः सङ्गतो निर्दोषानां न्यायागतानां कल्पनीयानपानादीनां देशकालश्रद्धासत्कारक्रमयुक्तः पश्चात्कर्मादिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः, अत्र चायं विधिःकृतपौषधेन श्राद्धेन पारणकदिने साधुसद्भावेऽवश्यमतिथिसंविभागवतमासेव्य पारयितव्यमन्यदा त्वनियमः। यदाह-'पढमं जईण दाऊण' इत्यादि । अत्र चातिचारप्रतिक्रमणायाह
सच्चित्ते निक्खिवणे, पिहिणेववएस मच्छरे चेव।कालाइक्कमदाणे, चउथे सिक्खावए निंदे ॥३०॥ देयस्यान्नादेरदानबुध्यातिक्रमादिभिरनाभोगेन वा सञ्चित्ते पृथ्व्यादौ निक्षिपतः सञ्चित्तनिक्षेपणतेति प्रथमोऽति-|
RRANGA
Jain Educa
t
ional
For Private & Personal Use Only
www.jainelibrary.org