________________
Jain Educat
| मीयतेऽनेनेति मानं सेतिकादि पलादि हस्तादि च तयोः कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददाति अधिकाभ्यां गृह्णातीत्येवं व्यवहारः कूटतुलाकूटमानं, यदाह - "लौल्येन किश्चित् कलया च किञ्चिन्मानेन किञ्चित्तुल्या च किञ्चित् । किंचिच्च किञ्चिच्च समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥ १॥ अधीते यत् किञ्चित्० ॥ २ ॥ श्रुत्वा दुर्वाक्या० ॥ ३ ॥ नैवं श्रावकस्य युज्यते, यतः- “उचिअं मुत्तूण कलं दवाइकमागयं च उक्करिसं । निवडिअमवि जाणतो परस्स संतं न गिव्हिजा ॥१२॥” अस्या व्याख्या- उचिता कला शतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा तां, तथा द्रव्यं-गणिमधरिमादि, आदिशब्दात् उद्धृतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेन आगतः - सम्पन्नो य उत्कर्ष:- अर्थवृद्धिरूपस्तं मुक्त्वा शेषं न गृह्णीयात्, कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिंदितो लाभः स एव ग्राह्य इति भावः, इति पञ्चमोऽतिचारः ४ ॥ एषु क्रियमाणेषु यद्वद्धमिति तथैव यद्वा स्तेनाहृतादयः पञ्चाप्यमी राजनिग्रहहेतुत्वादिना व्यक्तचौर्यरूपा एव, केवलमनाभोगादिना वा विधीयमाना अतिचारतया व्यपदिश्यन्ते इति चतुर्दशगाधार्थः ॥ १४ ॥ अत्र व्रते वसुदत्तधनदत्तयोज्ञतं । उक्तं तृतीयं व्रतम्, अथ चतुर्थमाह
|
"उत्थे अणुवयम्मी" त्यादि, मैथुनं द्विधा - सूक्ष्मं स्थूलं च, मोहोदयेन यदिन्द्रियाणामीपद्विकारः तत् सूक्ष्मं, मनोवाक्कायैरौदा रिकवैकिय स्त्रीणां यः सम्भोगस्तत् स्थूलं, अथवा मैथुनरूपं ब्रह्मचर्य द्विधा - सर्वतो देशतश्च, सर्वथा स्त्रीणां | मनोवाक्कायैः सङ्गत्यागः सर्वतो ब्रह्म, तदितरदेशतः, तत्रोपासकः सर्वतोऽशकौ देशतस्तत् प्रतिपद्यते, तदेव च दर्शयति, चतुर्थाणुत्रते नित्यं सदा परेषां - आत्मव्यतिरिक्तानां मनुष्याणां देवानां तिरश्चां ये दाराः परिणीतसङ्गृहीतभेदभिन्नानि
ational
For Private & Personal Use Only
चतुर्थं व्रतम्
v.jainelibrary.org