________________
चिन्मन्त्रे क्रियमाणे आकाडेपोत प्रीती सत्यामेकण्याकामनभेदः, ततः सहसादिच्यते ।
द्वितीयत्रतस्य पश्चातीचाराः
सहसाऽभ्याख्यानं, रहसि-एकान्ते कैश्चिन्मन्त्रे क्रियमाणे आकारेंगितादिभित्वेिदमिदं राजविरुद्धादिकमेते मन्त्रयन्ते इत्याद्यभिधानं रहोऽभ्याख्यानं, पैशून्यं वा रहोऽभ्याख्यानं, यथा द्वयोः प्रीतो सत्यामकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति, यथा प्रीतिः प्रणश्यति २, स्वदाराणां विश्वासभाषितस्यान्यस्मै कथनं स्वदारमन्त्रभेदः, ततः सहसादिपदद्वयस्य द्वन्द्वस्तस्मिन् , एवमन्यत्रापि । ननु स्वदारमन्त्रभेदे रहोऽभ्याख्याने च सत्यस्यैव कथनात्कथमतिचारता?, उच्यते, गूढमन्त्रप्रकाशनजनितलज्जादितः कलत्रादेर्मरणाद्यनर्थस्यापि सम्भवात् परमार्थतोऽस्यासत्यत्वमेव, यदुक्तम्-“न सत्यमपि |भाषेत० ॥१॥ स्वदारग्रहणस्य चोपलक्षणत्वान्मित्रादिमन्त्रभेदः स्त्रियं प्रति स्वपत्यादिमन्त्रभेदश्चाप्यतिचारतया ज्ञेयः ३, तथा द्वयोर्विवादेऽन्यतरस्य बञ्चनोपायशिक्षणं सम्यगज्ञातमन्त्रौषधाधुपदेशनं निकृतिप्रधानशास्त्राध्यापनादि वा मृपोपदेशस्तस्मिन् ४, |अन्यमुद्राऽक्षरादिना कूटस्यार्थस्य सूचनाय लेखः कूटलेखः तस्मिंश्च, शेपव्याख्या प्राग्यदिति द्वादशगाथार्थः ॥ १२ ॥ अत्र व्रते कनलठिकथा वृत्तितो ज्ञेया। उक्तं द्वितीयं व्रतं, अथ तृतीयव्रतमाह
'सइये अणुवयम्मी त्यादि, इहादत्तं चतुर्दा, यदाहुः,-"सामीजीवादत्तं तित्थयराणं तहेव य गुरुहिं । एअमदत्तसरूवं परूविअंआगमधरेहिं ॥१॥" यद्वस्तु-कनकादिकं स्वामिना न दत्तं तत् स्वाम्यदत्तं १, यत्फलादि सचित्तं स्वकीयं भिनत्ति तज्जीवादत्तं २, यतस्तेन फलादिजीवेन न खलु निजप्राणास्तस्य दत्ताः ३, गृहस्थेन दत्तमाधाकर्मादि तीर्थकराननुज्ञातत्वात् साधोस्तीर्थकरादत्तं, श्रावकस्य प्रासुकमप्यनंतकायाभक्ष्यादि तीर्थङ्करादत्तं, सर्वदोषविमुक्तमपि यद्गुरूननिमन्त्र्य भुज्यते तद्गुर्वदत्तं ४ । अत्र स्वाम्यदत्तेनाधिकारः, तच्च द्विविधं-स्थूलं सूक्ष्मं च, येन चौरेति व्यपदेशः स्यात् तत् स्थूलं, चौर्यबुद्ध्या
Jain Education
.
For PrivatesPersonal use Only
de.jainelibrary.org