SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सुरोऽभूत्, च्यवनासत्तौ च तेन पृष्टः श्रीवीरः प्राह-सप्ततिर्यग्भवानन्तरं नृत्यप्राप्तावपि प्राकुलिङ्गिप्रशंसया बोधिस्तेऽतिदुर्लभः, ततोऽपि कतिपय भवान् भ्रान्त्वा पद्मनाभार्हत्तीर्थे त्वं सेत्स्यसीति तुर्योऽतिचारः, तथा कुलिङ्गेषु विभक्तिव्यत्ययात् कुलिङ्गिभिः सह संवासभोजनालापादिरूपः परिचयः संस्तवः मिथ्यादृष्टिभिः सह एकत्रवासादिपरिचये प्रायो दृढसम्यक्त्व - वतोऽपि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुद्धेरभिनवधर्म्मस्येति तत्संस्तवोऽपि सम्यक्त्वं दूषयति, उपलक्षणत्वान्निह्नवादीनामपि संस्तवे प्रशंसायां च सम्यक्त्वातिचारः, यदागमः - अंबस्स य निंबस्स य० १ ॥ जो जारिसेण मित्तिं० २ ॥ मिथ्यादृकसंस्तवे श्रीहरिभद्रसूरिशिष्य सिद्धसाधुज्ञातं स सौगतमतरहस्यमर्मग्रहणार्थं गतस्तैर्भावितो गुरुदत्तवचनत्वान्मुक्तलापनायागतो गुरुभिर्बोधितो बौद्धदत्तवचनत्वान्मुक्तलापनाय गतः पुनस्तैर्भावितः, एवं २१ वारान् गतागतकारी तत्प्रतिबोधार्थं गुरुकृतललित विस्तराख्यशक्रस्तववृत्त्या दृढं प्रतिबुद्धो गुरुपार्श्वे स्थित इति पञ्चमोऽतिचारः ५ । एवं सम्यक्त्वातिचारे सति यद्वद्धमित्यादि पूर्ववदिति षष्ठगाथार्थः ॥ ६ ॥ इदानीं चारित्रातीचारं प्रतिचिक्रमिषुः, प्रथमं सामान्येनारम्भनिन्दनायाह "छक्काय समारंभे” इत्यादि, पटूकायिकानां भू १ जला २ नल ३ वायु ४ वनस्पति ५ त्रस ६ रूपाणां समारम्भे- परितापनादौ, नन्वन्यत्रागमे - " संरंभसमारंभ आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ १॥" इत्यादि संरंभसमारम्भारंभाणां त्रितयमुपात्तमत्र किमिति केवलः समारम्भ एवोपाददे ?, उच्यते, मध्यग्रहणे आद्यन्तयोरपि ग्रहणं तुलादण्डस्येवेति न्यायेन समारम्भारम्भावप्युपात्तावेव मन्तव्यौ, तत्र संरम्भः - प्राणिवधादिसङ्कल्पः समारम्भः परिता* पनादिः आरम्भः - प्राणिप्राणापहार:, ततस्तेषु त्रिष्वपि ये दोषाः - पापानि, न त्वतीचाराः, श्राद्धेन पङ्कायारम्भवर्जनस्यानङ्गी ५ व. प्र. as Jain Educationtional For Private & Personal Use Only 星光奖炎炎 84888888 मिथ्यादृक संस्तवे सिद्धसाधुज्ञातम् cow.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy