SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ वन्दन प्रतिक्रमणावचूरिः ॥ १७ ॥ Jain Education भङ्गः, पारिष्ठापनिकाकारः साधोरेव, यथा - " विहिगहियं विहिभुत्तं उच्चरिअं जं भवे असणमाई । तं गुरुणाणुन्नायं कप्पइ आयंबि लाईणं ॥ १॥" श्रावकस्त्वखण्ड सूत्रत्वादुच्चरति, मुखं दक्षिणपाणिं वाऽशक्यपरिहार्यत्वात् भुक्त्वा शेषाङ्गोपाङ्गानां प्रथमनित्रेशरूपं एकं स्थानं यत्र तदेकस्थानं ६ | आचामः - अवश्रावणं अम्लं - चतुर्थो रसः, एते व्यञ्जने प्रायो यत्र भोजने ओदनकुल्माषसत्तुप्रभृतिके तदाचाम्लं समयभाषयोच्यते, लेपो भोजनभाजनस्य विकृत्या तीमनादिना च, अलेपः अङ्गुल्यादिसंलेखनतः लेपश्चालेपश्च तस्मादन्यत्र, शुष्कौदनादिभक्ते पतितपूर्वस्य द्रवविकृत्यादिद्रव्यस्य उत्क्षिप्तस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः, गृहस्थस्य-भक्त| दायकस्य सम्बन्धिकरोटिकादिभाजनं विकृत्यादिना उपलिप्तं गृहस्थसंस्पृष्टं । 'सूरे उग्गए' इत्यादि न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्याने सोऽभक्तार्थः, स उपवास इत्यर्थः । यदि चात्र त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, चतुर्विधाहारस्य तु पानकेऽप्युद्धरिते कल्पते, अत्र च साधवः शक्तिसद्भावे पौरुष्यादीनि चतुर्विधाहारस्य प्रत्याख्यान्ति, तदभावे त्रिविधाहारस्य, न तु द्विविधाहारस्य, निष्कारणे स्वाद्यस्याननुज्ञातत्वात् । श्राद्धस्तु सम्प्रदायात् कतिचित्प्रत्याख्यानानि द्विविधाहारस्यापीति ७ । यदा त्रिविधाहारप्रत्याख्यानं तदा पानकमाश्रित्य पडाकारा भवन्ति, 'पाणस्स लेवेण वा अलेवेण वा अच्छेण वे' त्यादि, तत्र कृतलेपाद्वा-खर्जूरादिपानकात्, वाशब्दो अलेपकृतपानकस्यापेक्षया अवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकृताद्वा-सौत्री|रादेः, अच्छाद्वा-निर्मलादुष्णोदकादेः, बहुलाद्वा-गडुलात्तिलतन्दुलधावनादेः, ससिक्थाद्वा-अवश्रावणादेः, असिक्थाद्वासिक्त्थवर्जितात् ८ । 'दिवसचरिम' मित्यादि, दिवसस्य - अहोरात्रस्य चरिमः - दिवसचरिमः स तथा तं, एवं भवचरममपि, दिवसचरिमं स्वल्पाकारत्वादेकासनादिष्वपि सार्थकं ९ । अभिग्रह प्रत्याख्यानं यथा - "अंगुडमुट्टिगंडी घर सेउस्सासथिबुजोइक्खे । भणियं For Private & Personal Use Only ***+******++++++* प्रत्याख्या नमूत्रस्यार्थः ॥ १७ ॥ jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy