SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern | उक्तक्रिया ६ ऽल्पभवता ७ व्याख्याङ्गानीति समयविदः ||१||” विज्ञायैतान्यादृतेषु चैषु 'संहिता च पदं चैवे' त्यादिवन्नैव | स्यान्मयूर नृत्यानुकारिणी व्याख्या, किं तु व्याख्याता अवश्यं साधयेदवितथं साध्यमनाबाधावाप्तिरूपम् ॥ पूज्यानां प्राचीनता उपदेशपदानेकान्तजयपताका धर्म संग्रहणीधर्म सार सर्वज्ञ सिद्ध्यादेककर्त्तृकता च पृष्ठ १८-७५-६४-९९ - १०१ स्थिता - तिदेशतो भविष्यति स्पष्टा, तदनन्तरोपरचितत्वमप्यस्यावभासिष्यते चतुरचेतसां मनसि तथैव स्याद्वादकल्पलतापञ्चाशकवृत्त्यादि लेखतोऽपि प्रान्त्ये विरहशब्दोपलम्भाच्च स्पष्टमेव प्रस्तुतप्रकरणविधायित्वं भवविरहसूरितया ख्यातानामाद्यानामेव श्रीहरिभद्रसूरीणां तथा च ये वैयावृत्त्यकराणामित्यादिसूत्रं देवताकायोत्सर्गस्तत्स्तुतिश्च नव्या इत्याख्याय ता अपलपन्ति तेषां परमाभिनिवेशितैव केवला, न च भद्रं देवावर्णवाद्यसत्यपक्षपोषक निबन्धनासत्यदेव दर्शनख्यापकाना| मस्ति भविष्यति चेत्याधाय चेतसि घृणामीहे तेषामाप्तमार्गांनुसृतये, श्रीमत्सत्ताकाले चानेकानि आसन्नन्ययूथिकमतान्तराणि तानि ग्रन्थग्रन्थकाराभिधानानि च तत्समयगवेषणायामितिहासप्रियाणामुपकारकाणि भावीनीति विमृश्य पुरः | स्फुटविषयानुक्रमस्थूलविषयानुक्रमलोकोक्तिक्रमदर्शनेन सह मतान्तराणि परग्रन्थोक्त्यनुक्रमश्च न्यासिष्यन्ते तत्तत एवावलोक्यं धीधनैः शेषमित्यभ्यर्थयते श्रीश्रमणसङ्घसेवारसिक उदन्वदन्त आनन्दः ॥ गूर्जरपत्त विक्रमस्य १९७१ वर्षे श्रावणकृष्णद्वितीयायाम् For Private & Personal Use Only 13090030 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy