SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ * ललितवि० | 'सप्तमेत्यादि' सप्तमनरकेऽतिक्लिष्टसत्त्वस्थाने आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्रसंलेशरूपस्याभावात् स्त्रीणां 'षष्ठी पं० यता. च स्त्रियः' इतिवचनात् तद्वत्प्रकृतरौद्रध्यानस्येव प्रकृष्टस्य मोक्षहतोः शुभध्यानस्य शुक्लरूपस्याभाव इति ॥ ॥११०॥ ____एवं चेदभ्युपगमो भवतः, अस्य परिहारमाह-'न' नैवैतत्परोक्तं, कुत इत्याह-'तेन' प्रकृतरौद्रध्यानेन 'तस्य' प्रकृ-| | तशुभध्यानस्य 'प्रतिबन्धाभावाद्' अविनाभावायोगात् , प्रतिबन्धसिद्धौ हि व्यापककारणयोवृक्षत्वधूमध्वजयोनिवृत्ती शिंशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृष्टशुभध्यानाभाव उपन्यसितुं युक्तो, न चास्ति प्रतिबन्धः, कुत इत्याह| 'तत्फलवत् तस्य-प्रकृष्टशुभध्यानस्य फलं-मुक्तिगमनं तस्येव 'इतरफलभावेन' प्रकृतरौद्रध्यानफलस्य-सप्तमनरकगमन | लक्षणस्य भावेन-युगपत्सत्तया 'अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात् , प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं धूम इव वा धूमध्वजः प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्य कारी, स्वकार्यकारित्वाद्वस्तुनः, स्वकार्यमाक्षिपत्कथमिव परमपुरुषार्थ नोपहन्यादिति, o अक्रूरमतिरपि रतिलालसाऽसुन्दरैव तदपोहायाह-'नो न उपशान्तमोहा' काचित् उपशान्तमोहापि सम्भवति, तथादर्शनात् , उपशान्तमोहाऽप्यशुद्धाचारा गर्हिता तत्प्रतिक्षेपायाह-'नो न ॥११॥ ॥ शुद्धाचारा' कदाचित् शुद्धाचाराऽपि भवति, औचित्येन परोपकरणार्जनाद्याचारदर्शनात् , शुद्धा चाराऽप्यशुद्धबोन्दिरसाध्वी तदपनोदायाह-'नो अशुद्धबोन्दिः' काचित् शुद्धतनुरपि भवति । 000000000000@@g 19®®®000000000** Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy