________________
ललितवि०
उपोद्घातः।
उपोद्घात.
இருருருருருருருருருருருருருருநBDOE
0000000000
जयत्यसौ श्रीजिनराट् सदुक्तिः। पावयन्तु पूतपरमेश्वरप्रवचनपीयूषपीनान्तःकरणाः सचक्षुष्का ग्रन्धमेनं तत्त्वरत्नरत्नाकरायमाणमालोक्य तदुक्तम-6 नुष्ठाय च,न हि कञ्चनापि ग्रन्थार्थमननुष्ठाय ज्ञप्तिमात्रेण तस्याधिगम्यते भावुक भविकवरपि, ग्रन्थश्चायं विरचितोऽनुष्ठानो|पयोगी सुविहितनामधेयैः सूरिभिः, तथा च यथा द्रव्यगणितकथानुयोगानां चारित्रप्रतिपत्तिहेतुतया प्राधान्यात् तदाहत्यैव तदवबोधः फलेग्रहिः, तथा प्रस्तुतस्यापि वाङ्मयस्यावबोधस्तदुक्तानुष्ठानेनैव फलप्रदः, सर्वत्र चैवमाहते प्रवचने न्यायोऽयम् , अयमेव 'ज्ञानक्रियाभ्यां मोक्ष' इति प्रसिद्धतरस्य सूत्रस्य परमार्थः, विशेषेण चास्योपयोगिताऽऽवश्यकचैत्यवन्दनासूत्राणामनन्यसाधारणया व्याख्यया समलङ्कतत्वात् , ज्ञाते हि अवितथे परमार्थे परिणामोल्लासो जाजायते च ततः कर्मक्षयक्षयोपशमतोऽपूर्वात्मगुणोद्भवः, अनुष्ठेयं च त्रिसन्ध्यमवश्यं चैत्यवन्दनमहद्गुणगणपरागषट्पदैः प्रत्यहमसामान्यसम्यग्दर्शनशुद्धये, शुद्धे च दर्शने यथार्थोऽवबोधपरिणामः क्रमशश्चारित्राचरणपरिणामश्च, तदवश्यं विधिबद्धरागैरनुष्ठेयमेतदाख्यातमव्याबाधबोधैः । तदेवमसमानत्वात् चैत्यवन्दनसूत्राणां सर्वेषामुपयोगित्वाच्च युक्तं विशेषतो विवरणं, तत्रैव श्रद्धामूलसम्भवात् सकलानुष्ठानफलानां, विशेषणसाफल्यपरिज्ञाने च भवेदवश्यमर्हति विशेषेणोपमातिक्रान्त आदर इति युक्तियुक्त एवात्रत्यो विशेषणसाफल्योपदर्शक आयासः। तदेवमुपयुक्ततमस्यास्य व्याख्यानं विहितं श्रीमद्भिः
Jain Education Inten
For Private
Personal Use Only
w.jainelibrary.org