SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॥ २८ ॥ (मालिनी) तेन श्रीगुरुणाऽऽहितो निजपदे दीपोपमोऽदीदिपत, सूरिः श्रीविजयादिसिंहसुगुरुः प्राज्यमहोभिर्जगत् । भूमौ स प्रतिबोध्य भव्यनिवहान् खर्गेऽप्यथ खर्गिणः, प्राप्तो बोधयितुं गुरौ विजयिनि प्रेमाणमुत्सृज्य नः॥ २९ ॥ (शार्दूल.) तदनु पट्टपतिर्विहितोऽधुना, विजयदेवतपागणभूभृता । गुणगणप्रगुणोऽनणुभाग्यभूर्विजयते गणभृद्विर्जयप्रभः॥३०॥ (द्रुतविलम्बितम् ) निर्ग्रन्थः श्रीसुधर्माभिधगणधरतः कोटिकः सुस्थितार्याचन्द्रः श्रीचन्द्रसूरेस्तद्नु च वनवासीति सामन्तभद्रात् । सूरेः श्रीसर्वदेवादूटगण इति यः श्रीज|गचन्द्रसूरेर्विश्वे ख्यातस्तपाख्यो जगति विजयतामेष गच्छो गरीयान् ॥ ३१॥ (स्रग्धरा) इतश्च| श्रीहीरविजयसूरीश्वरशिष्यौ सोदरावभूतां द्वौ । श्रीसोमविजयवाचकवाचकवरकीर्तिविजयाख्यौ ॥३२॥ (आर्या) तत्र कीर्तिविजयस्य किं स्तुमः, सुप्रभावममृतातेरिव । यत्करातिशयतोऽजनिष्ट मत्, प्रस्तरादपि सुधारसोऽसको ? ॥ ३३ ॥ ( रथोद्धता ) प्रतिक्रियां कां यदुपक्रियाणां, गरीयसीनामनुसघुमीशे । Kा ज्ञानादिदानैरुपचर्य सोऽयं, यैः कल्पितः कीटकणोऽपि कुम्भी ॥ ३४ ॥ ( उपजातिः ) विनयवि जयनामा वाचकस्तद्विनेयः, समदृभदणुशक्तिर्ग्रन्थमेनं महार्थम् । तदिह किमपि यत्स्यात्क्षुण्णमुत्सूत्रकाद्यं, मयि विहितकृपैस्तत्कोविदैः शोधनीयम् ॥ ३५॥ (मालिनी) सच्छाये सुमनोरमेऽतिफलदे काव्येऽत्र लीला-1 |वने, प्राज्ञेन्दिन्दिरमोदके सहृदयश्रेणीमरालाश्रिते । दोषः कण्ट किशाखिवद्यदि भवेन्मन्ये गुणत्वेन तं, येन व्यर्थमनोरथस्तदनुदृगू नोष्टः खलः खिद्यते ॥ ३६॥(शार्दूल.) उत्तराध्ययनवृत्तिकारकैः, सुष्टु भावविजया- १ JainEducation in For Private Personal Use Only Enelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy