SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे यथैकविंशतिः। दश क्षायोपशमिकास्त्रयश्च पारिणामिकाः॥१॥ एवं भावाश्चतुस्त्रिंशजाता:संकलिताः समेभावतत्प्रभावलोके चतुस्त्रिंशद्भेदजातस्ततोऽत्र सान्निपातिकः॥१४॥ भवेत्सास्वादने चैष, द्वात्रिंशद्भेदभावितः त्रयस्त्रिंशद्भेदजातो, भेदस्थितिः ३६ स मिश्रे स्यात्सान्निपातिकः ॥१५॥ पञ्चत्रिंशद्भेदभूतो, गुणस्थाने तुरीयके। पञ्चमे च चतुस्त्रिंशत्प्रतिभेदसमुद्भवः ॥५७७॥ |॥१६॥ प्रमत्ते च त्रयस्त्रिंशद्भेदजःसान्निपातिकः । अप्रमत्तगुणस्थाने, त्रिंशद्भेदसमुच्छ्रितः॥१७॥ सप्तविंशतिभेदोत्थो, गुणस्थानेऽयमष्टमे । नवमे च गुणस्थाने, सोऽष्टाविंशतिनिर्मितः ॥१८॥ स सूक्ष्मसंपराये स्याद्, द्वाविंशतिसमुद्भवः । तथोपशान्तमोहेऽयं, भेदविंशतिभावितः॥ १९॥ क्षीणमोहेऽयमेकोनविंशतिप्रतिभेदजः। स सयोगिनि सर्वज्ञे, त्रयोदशभिदुद्भवः ॥२०॥ अयोगिनि द्वादशभिर्भेदैः स्यात्सान्निपातिकः । ज्ञेया भेदास्तु सर्वेऽमी, सर्वत्रोक्तानुसारतः ॥२१॥ अत्र नवमदशमयोर्गुणस्थानयोरोपशमिकचारित्रांगीकारपक्षे द्वावौपशमिको भावी, अन्यथा चैक एवेति ज्ञेयं ।। | चतुर्भग्याऽथ भाव्यन्ते, भावा औदयिकादयः। साद्यन्त १ साद्यनन्ता २ ऽनादिसान्ता ३ ऽनाद्यन्तकाः ४ ॥ २२ ॥ गत्यादिरत्रौदयिकः, सादिः सान्तो भवेद्यतः। नृदेवतियग्नरकगतीनां सादिसान्तता ॥ २३ ॥ सादिश्वानन्त इत्येष, भङ्गस्त्वत्र न संभवेत् । सादिकानां गतीनां यदनन्तत्वमसंभवि ॥ २४ ॥ अनादयोऽपि मि- ॥५७७॥ थ्यात्वादय औदयिकाश्च ये । भव्यानाश्रित्य विज्ञेयास्तेऽत्र भने तृतीयके ॥२५॥ अभव्यापेक्षया त्वेते, भाव्या भने तुरीयके । भावनैवं कषायादिभावानां क्रियते यथा ॥ २६ ॥ वेदत्रयं च मिथ्यात्वं, कषायाणां चतुष्टयम् । Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy