________________
लोकप्रकाशे भावलोके ३६ सर्गे
॥ ५६९ ॥
॥ १३ ॥ अत्रोच्यते - स्यात् क्षयोपशमे कर्मप्रदेशानुभवात्मकः । उदयोऽप्यनुभागं तु, नैषां वेदयते मनाक ॥ १४ ॥ प्रदेशैरप्युपशमे, कर्मणामुदयोऽस्ति न । विशेषोऽयमुपशमक्षयोपशमयोः स्मृतः ॥ १५ ॥ आगमश्चात्र- " से णूणं भंते! णेरइयस्स वा तिरिक्खजोणियस्स वा मणुस्सस्स वा देवस्स वा जे कडे कम्मे अस्थि णं तस्स अवेयइत्ता मोक्खो ?, हंता गो० !, से केणट्टेणं भंते ! एवं बुच्चति ?, एवं खलु गो० ! मए दुविहे कम्मे पन्नत्ते, तं०-पदेसकम्मे य अणुभावकम्मे य, तत्थ णं जं पदेसकम्मं तं नियमा वेदेइ, तत्थ णं जं तं अणुभावकम्मं तं अत्थेगतियं वेदेति, अत्थेगतियं नो वेदेति, णातमेयं अरहता, विष्णायमेतं अरहता, अयं जीवे इमं कम्मं अब्भोवगमियाए वेदणाए वेदिस्सति, अयं जीवे इमं कम्मं उवक्कमियाए वेदणाए वेदिस्सति, अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिहं तहा तहा विपरिणमिस्सतीति, से तेणट्टेणं एवं वुच्चति' यः कर्मणां विप्राकेनानुभवः सोदयो भवेत् । स एवौदयिको भावो, निर्वृत्तस्तेन वा तथा ॥ १६ ॥ य एव जीवाजीवानां, स्वरूपानुभवं प्रति । प्रह्वीभावः परीणामः, स एव पारिणामिकः ॥ १७ ॥ परिणामेन निर्वृत्त, इति चात्र न संभवेत् । अस्यां निरुक्तौ सादित्वं, जीवत्वादेः प्रसज्यते ॥ १८ ॥ अत्र चाद्यास्त्रयः प्रादुर्भवेयुः कर्मघाततः । रजोऽभ्रविगमे तिग्मरश्मिकान्तिकलापवत् ॥ १९॥ सर्वतो देशतश्चेति, विघातः कर्मणां द्विधा । आयः | स्ववीर्यापेक्षोऽन्यः, सकर्मात्मप्रयोगजः ||२०|| तुर्यस्तु भावः खोपात्तकर्मोदयसमुद्भवः । सुरामदोदयाद्गीतनृत्तहास्यादिभाववत् ॥ २१ ॥ पारिणामिकभावस्तु, निर्दिष्टो निर्निमित्तकः । अत एव स्वार्थिकोऽत्र, प्रत्ययो राक्ष
Jain Education rent
Monal
For Private & Personal Use Only
भावानां
स्वरूपं
२०
२५
॥५६९॥ २७
w.jainelibrary.org