________________
लोकप्रकाशे काललोके ३५ सर्गे
॥५६२ ॥
Jain Education
ह्येकैकस्यां स्थितिबन्धा असंख्यशः । यथा जघन्यतः कार्यस्थितिरन्तर्मुहर्त्तिका ॥ ७२ ॥ ततः परैकसमयाधिकाऽन्या द्विक्षणाधिका । त्रिक्षणाभ्यधिका यावदुत्कृष्टा सर्वतोऽन्तिमा ॥ ७३ ॥ एकैकस्मिन्ननुभागबन्धस्थानान्यसंख्यशः । स्थितिबन्धे भवन्तीति, निर्दिष्टं तत्त्ववेदिद्भिः ॥ ७४ ॥ तथाहुः - "एगसमयंमि लोए, सुहुमगणिजिआ उ जे उ पविसंति । ते हुंतऽसंख लोगप्पएसतुल्ला असंखिज्जा ॥ ७५ ॥ तत्तो असंखगुणिया अगणिक्काया उ तेसि कायठिई । तत्तो संजमअणुभागठाणाणि संखगुणिआणि ॥७६॥” एवं च प्रवचनसारोद्धारसूत्रवृत्त्याद्यभि| प्रायेण सूक्ष्माग्निकायिकजीव काय स्थितेरनुभागबन्धस्थानानि भावपुद्गलपरावर्त्तनिरूपणा योपक्रान्तानि पञ्चसंग्रहकर्मग्रन्थ सूत्रवृत्त्यादिषु तु सामान्यत एवानुभागबन्धस्थानान्युक्तानि, तथाहि - "भावपुद्गलपरावर्त्तमाहअणुभागट्ठाणेसुं, अनंतर परंपराविभत्तेहिं । भावंमि बायरो सो सुहुमो सबेसऽणुक्कमसो ॥ १ ॥” इति पञ्चसंग्रहे । अथात्रानुभागबन्धस्थानस्खरूपनिरूपणायोपक्रम्यते - प्राग यानि कर्मयोग्यानि, द्रव्याण्युक्तानि तान्यथ । स्वाधिष्ठिताभ्रप्रदेशावगाढानीह चेतनः ॥ ७७ ॥ उपादाय कर्मतया, द्राक् परिणमयत्ययम् । किंचित्साधर्म्यतो वह्निदृष्टान्तोऽत्र निरूप्यते ॥ ७८ ॥ यथा दहनयोग्यानि द्रव्याणि ज्वलनोऽपि हि । खगोचरस्थितान्येव, प्रापयेद्वहिरूपताम् ॥ ७९ ॥ न तु खविषयातीतान्यग्नितां नेतुमीश्वरः । जीवोऽपि खप्रदेशेभ्यो, द्रव्यमेवं बहिः स्थितम् ॥ ८० ॥ नैव कर्मयोग्यमपि, कर्मतां नेतुमीश्वरः । गृह्णाति तानि जीवश्च सर्वैरात्मप्रदेशकैः ॥ ८१ ॥
tional
For Private & Personal Use Only
भावपुद्गलावत्तेः
२०
२५
॥ ५६२ ॥
२७
www.jainelibrary.org