SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे धर्मों, यथा पञ्चमहाव्रतः । मुनीनां श्रावकाणांच, द्वादशव्रतवन्धुरः॥१६॥ महावीरेण जगदे, जगदेकहितावहः। शा उत्सर्पिकाललोके महापद्मोऽपि भगवांस्तथा सर्व वदिष्यति ॥ १७॥ युग्मम् ॥ अस्य प्रभोगणधरा, एकादश गणा नव । श्रीवी- ण्यां पद्मना३४ सर्गेश रवद्भविष्यन्ति, वर्णलक्ष्मोच्छ्रयाद्यपि ॥१८॥ कल्याणकानां पञ्चानां, तिथिमासदिनादिकम् । श्रीवर्द्धमान-भादिजिनाः वद्भावि, पद्मनाभप्रभोरपि ॥ १९॥ सार्द्धषण्मासहीनानि, वर्षाणि त्रिंशतं च सः। पालयिष्यति सर्वज्ञपर्याय ॥५५३॥ सुरसेवितः॥२०॥ द्विचत्वारिंशदब्दानि, श्रामण्यमनुभूय च । द्विसप्तत्यब्दसर्वायुः, परमं पदमेष्यति ॥ २१॥ सुपार्थो वर्द्धमानस्य, पितृव्यो यः प्रभोरभूत् । सूरदेवाभिधो भावी, स द्वितीयो जिनोत्तमः॥ २२॥ पोट्टिलस्य च यो जीवः, स तृतीयो भविष्यति । सुपार्श्वनामा देहादिमानैर्ने मिजिनोपमः॥ २३ ॥ यस्तु हस्तिनापुरवासी भद्रासार्थवाहीपुत्रो द्वात्रिंशद्भार्यात्यागी वीरशिष्यः सर्वार्थसिद्धोत्पन्नो महाविदेहान्तः सेत्स्यन्नौपपातिकोपाङ्गे (अनुत्तरोपपातिकांगे) प्रोक्तः स त्वन्य एव । जीवो दृढायुषस्तुर्यो, जिनो भावी स्वयम्प्रभः। कार्तिकात्मा च सर्वानुभूतिः पञ्चमतीर्थकृत् ॥ २४॥ __ श्रावस्त्यां शङ्कुशतकावभूतां श्रावकोत्तमौ । तत्र कोष्टकचैत्ये च, श्रीवीरः समवासरत् ॥ २५ ॥ भगवन्तं नमस्का, शङ्खाद्याः श्रावका ययुः। ततो निवर्तमानांस्तान्, श्राद्धः शङ्खोऽब्रवीदिति ॥ २६ ॥ उपस्कारयत ॥५५३॥ प्राज्यमाहारमशनादिकम् । यथा तदद्य भुञ्जानाः, पाक्षिक पर्व कुर्महे ॥२७॥ ते च शङ्खवचः श्राद्धास्तथेति प्रतिपेदिरे । शङ्खश्च निर्मलमतिहे गत्वा व्यचिन्तयत् ॥२८॥ न श्रेयानद्य भुक्त्वा मे, पौषधः पाक्षिकेऽहनि । 999909899909 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy