SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Roes.sesectsecessseeeeees ज्ञानदर्शनचारित्रलिङ्गसूक्ष्मविभेदतः।।८८॥ युग्मम् ॥ज्ञानं दोषैः स्खलिताद्यैः, शङ्किताद्यैश्च दर्शनम् । मूलोत्तरातिचारैश्च, चारित्रं यो विराधयेत् ॥८९॥ स ज्ञानादिपुलाकः स्यात्कुर्यान्निष्कारणं च यः। वेषान्तरं भवेल्लिङ्गपुलाकःस श्रुतोदितः॥९०॥ युग्मम् ॥ संयताऽकल्प्यवस्तूनां, मनसा यो निषेवकः। स निर्दिष्टोयथासूक्ष्मपुलाकः श्रुतपारगैः॥९१॥ विनिर्गतो मोहनीयकर्माख्याद् ग्रन्थतोऽत्र यः। स निग्रन्थो विधा क्षीणोपशान्तमोहभेदतः ॥९२॥ शुक्लध्यानजलैः स्नातो, दूरं कर्ममलोज्झितः। स स्नातकः सयोगी चायोगी चेति द्विधा भवेत् ॥१३॥ ततश्च-अरकेऽसिंश्च बकुशकुशीलाख्येऽपि संयमे । भवेत्क्रमेणापकर्षः, शक्तिसत्त्वादिहानितः ॥९४॥ सत्यप्येवं भवेयुर्ये, मूढाः सङ्के चतुर्विधे। धर्मे च नास्तिकाः कार्यास्ते भव्यैः सङ्घतो बहिः॥९५ ॥ यथा घृता-181 दिवस्तूनां, पूर्वकालव्यपेक्षया । लेहमाधुर्यादिहानिर्यद्यप्यध्यक्षमीक्ष्यते ॥ ९६ ॥ तथापि कार्य तत्साध्यं, स्या-18 तैरेव घृतादिभिः । न पुनस्तत्पदन्यस्तैः, खच्छैरपि जलादिभिः ॥९७ ॥ पूर्वर्ण्यपेक्षयैवं च, हीनहीनगुणैरपि । मोक्षमागांचवाप्तिः स्यान्निग्रन्थैरेव नापरैः॥९८॥ विषमेऽपि च कालेऽस्मिन्, भवन्त्येव महर्षयः। निर्ग्रन्थैः सदृशाः केचिच्चतुर्थारकर्तिभिः ॥ ९९ ॥ यथाऽस्थामवसर्पिण्यामेतस्मिन् पञ्चमेऽरके । त्रयोविंशतिरादिष्टा, उदयाः सततोदयः ॥१०॥विंशतिः १ प्रथमे तत्र, युगप्रधानसूरयः। उदये स्युर्द्वितीयस्मिन् , त्रयोविंशतिरेव ते २॥१॥तृतीयेऽष्टाढ्यनवतिः ३, चतुर्थे चाष्टसप्ततिः ४। पञ्चसप्तति ५ रेकोननवतिः ६ शतमेव ७ च ॥२॥ सप्ताशीति ८ स्तथा पञ्चनवतिश्च ९ Jain Educa t ional For Private 3 Personal Use Only W ww.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy