SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ | पुग्गलत्थिकाए जीवत्थिकाए अद्धासमए य' एवं कालः पृथग्द्रव्यं, सिद्धो युक्त्याऽऽगमेन च । उप-181 काराश्च तस्य स्युः, पूर्वोक्ता वर्तनादयः ॥५६॥ वर्तनादिस्वरूपं च, सामान्येनोदितं पुरा । अथ किंचिद्विशेषेणोच्यते शास्त्रानुसारतः॥५७॥ तत्र च-द्रव्यस्य परमाण्वादेयो तद्रूपतया स्थितिः। नवजीर्णतया वा सा, वर्त्तना परिकीर्तिता॥५८॥ इति महाभाष्यवृत्त्यभिप्रायः, तथा च तत्पाठ:-"अत्रैव तत्तत्परमाण्वादिरूपेण परमाण्वादिद्रव्याणां वर्तनं वर्तना" इति १४९ तमपत्रे, तथा "तत्र विवक्षितेन नवपुराणादिना तेन तेन रूपेण यत्पदार्थानां वर्त्तनं-शश्वद्भवनं सा वर्तना" इत्याद्यपि तत्रैव २७८ पत्रे । तथा तैस्तैर्भावैः खतो ह्या | वर्त्तन्ते, तत्प्रयोजिका वृत्तिः कालाश्रया या सा वर्त्तनेत्यभिधीयते इति तत्त्वार्थवृत्त्याशयः, तथा च तद्वचःवर्त्तना कालाश्रया वृत्तिरिति, वर्तन्तेऽर्थाः स्वयमेव, तेषां वर्तमानानां कालाश्रया वृत्तिः वय॑ते यया सा वर्तना" इति १६८ तमपत्रे । धर्मसंग्रहणीवृत्तेरप्ययमेवाशयः । इति वर्त्तना ॥ नानाविधा परिणतिर्द्रव्यस्य सत एव या। परिणामः स कुम्भादिमुहव्यादेरिवोदितः ॥ ५९॥ यथाऽङ्कराद्यवस्थस्य, परिणामो वनस्पतेः । मूलकाण्डादिभावेन, खजात्यपरिहारतः॥६०॥ यथा वयापरीणामो, देहद्रव्यस्य चाङ्गिनाम् । दध्यादिपरिणामो वा, द्रव्यस्य पयसो यथा ॥ ६१॥ हेनो वा मौलिमुद्रादिभावैः परिणतियथा । परिणामो विफण-18 त्वोत्फणत्वादिरहेर्यथा ॥ ६२॥ द्विधा सादिरनादिश्च, स चाद्योऽभ्रादिगोचरः। धर्माधर्मास्तिकायादिगोचरः स्यात्ततोऽपरः॥ ६३॥ त्रिधा यद्वा परीणामस्तत्राद्यः स्यात्प्रयोगजः। द्वितीयस्तु वैनसिकस्तृतीयो मिश्रका Jain Educati o nal For Private & Personal Use Only hinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy