________________
लोकप्रकाश
कालनिरूपणे
11808 11
Jain Educatio
शतेर्भानां, शुद्धिरङ्कादतस्ततः । श्रुत्यादीन्युत्तराषाढान्तानि शुद्धानि भान्यतः ॥ ५० ॥ पूर्वोक्तनिर्णयोऽयं तद्यद्युगस्यादिमे दिने । सूर्योदये शशी योगं प्राप्नोत्यभिजिता सह ॥ ५१ ॥ युगस्याहि द्वितीयस्मिन्, द्वितीयायां तिथावथ । चन्द्रेण युक्तं नक्षत्रं, किं स्यादित्यत्र कथ्यते ॥ ५२ ॥ प्रतिपल्लक्षणैकैवातिक्रान्ता तिथिरत्र या । यशीत्या भजनं सा न, क्षमते यत्तनीयसी ॥ ५३ ॥ तदेतस्याः सप्तषष्टिः कर्त्तव्याः शकलास्ततः । ऋक्षस्याभिजितः प्राज्ञैः, शोधनीयैकविंशतिः ॥ ५४ ॥ शेषा तिष्ठति षट्चत्वारिंशत्सा त्रिंशता हता । कर्त्तुं मुहूर्त्तान् साशीतिस्त्रयोदशशती भवेत् ॥ ५५ ॥ सप्तषष्ट्यां विभागेऽस्या, लब्धा मुहूत्र्त्तविंशतिः । चत्वारिंशन्मुहूर्त्ताशाः, शिष्यन्ते सप्तषष्टिः ॥ ५६ ॥ ततश्च - सचत्वारिंशदशायां श्रुतेर्मुहूर्त्तविंशतौ । भुक्तायामिन्दुनोदेति, द्वितीयेऽह्नि युगे रविः ॥ ५७ ॥ एवं सर्वत्राप्यन्यत्र करणभावना कार्या । इति चन्द्रनक्षत्रप्रकरणं । अष्टादशमुहूर्त्ताट्यमहोरात्रचतुष्टयम् । भुक्त्वा पुष्यस्य पञ्चापि, खान्दान्यारभते रविः ॥ ५८ ॥ चतुर्विंशत्या | मुहूत्तैरधिका भुक्तशेषकाः । भवन्त्यष्टावहोरात्रास्तदा पुष्यस्य भाखतः ॥ ५९ ॥ ततश्च - स्युर्द्वादशमुहूर्त्ताख्या, अहोरात्रास्त्रयोदश । तथा स्युः पडहोरात्रा, मुहर्त्ताश्चैकविंशतिः ॥ ६० ॥ अहोरात्रा विंशतिश्व, मुहूर्त्तत्रितयाधिकाः । समासार्द्धक्षेत्राणां, भानां भोगः क्रमाद्रवेः ॥ ६१ ॥ एवं भैः सप्तविंशत्या, षष्टियुक्तशतत्रये अह्नामतीतेऽकन्दं स्यादेकषष्टितमे दिने ॥ ६२ ॥ द्वादशानां मुहर्त्तानां पूत पूर्णो पुनर्वसू । पुष्यस्याष्टादश ततो, मुहूर्त्तास्तद्दिने गताः ॥ ६३ ॥ ततः परं च पुष्यस्यातीते दिनचतुष्टये । पूर्णाकन्दस्य षट्षष्टियुक्ता दिन
tional
For Private & Personal Use Only
मुहूर्त्तप्रकरणं नक्षत्र
प्रकरणं
२०
२५
॥ ४०४ ॥
२८
Jainelibrary.org