SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Educab ष्ठाया, भुक्तेष्वंशेष्विहेन्दुना । सूर्यर्त्तुः प्रथमः पूर्ण, इति पूर्वोक्तनिर्णयः ॥ २५ ॥ अथ प्रथमसूर्यपूत्तौं सूर्यश्रमुच्यताम् । ध्रुवाकोऽत्रापि पूर्वोक्तः, पञ्चोपेतं शतत्रयम् ॥ २६ ॥ एतच्चैकेन गुणितं तादृगेव व्यवस्थितम् । अष्टाशीतिः शोध्यतेऽस्मात् पुष्यस्य प्रथमं ततः ॥ २७ ॥ शेषे च द्वे शते सप्तदशास्ये शोध्यते ततः । अश्ले पायाः सप्तषष्टिः, शेषं सार्द्ध शतं स्थितम् ॥ २८ ॥ शतमस्माच्चतुस्त्रिंशं, मघासंबन्धि शोध्यते । षोडशाब-स्थिताः शेषास्तदेष प्रश्ननिर्णयः ॥ २९ ॥ सूर्येण पूर्वफाल्गुन्या, भागेषु षोडशखिह । भुक्तेषु प्रथमोऽर्कर्त्तुः, संपूर्ण इति बुध्यताम् ॥ ३० ॥ लोके तु-मासौ मार्गादिको द्वौ द्वावृतुर्हेमन्त एव च । शिशिरश्च वसन्तश्च, ग्रीष्मो वर्षास्तथा शरत् ॥ ३१ ॥ ऋतुभिश्चायने भानोः, शिशिराद्यैस्त्रिभिस्त्रिभिः । उद्ग्याम्याभिषे ताभ्यां | द्वाभ्यामर्कस्य वत्सराः ॥ ३२ ॥ इति श्रूयते इति ऋतुप्रकरणं समाप्तं ॥ ऋतौ ऋतौ द्वौ द्वौ मासावित्यन्दे द्वादशैव ते । नामान्येषां द्विधा लौकिकानि लोकोत्तराणि च ॥ ३३ ॥ तत्र लौकिकान्येवं - स्याच्छ्रावणो भाद्रपद, आश्विनः कार्त्तिकोऽपि च । मार्गशीर्षश्च पौषश्च, माघः फाल्गुन एव च ॥ ३४ ॥ चैत्रस्तथा च वैशाखो, ज्येष्ठाऽऽषाढाविति क्रमात् । लोकोत्तराण्यथोच्यन्ते, नामान्येषां यथाक्रमम् || ३५ || अभिनन्दित इत्याद्यो, द्वितीयः स्यात्प्रतिष्ठितः । तृतीयो विजयाख्यः स्याच्चतुर्थः प्रीतिवर्द्धनः ॥ ३६ ॥ पञ्चमो भवति श्रेयान् षष्ठः शिव इति स्मृतः । सप्तमः शिशिरः ख्यातो, हिमवानिति चाष्टमः ॥ ३७ ॥ वसन्तमासो नवमस्ततः कुसुमसंभवः । एकादशो निदाघो द्वादशो वनविरोहकः ॥ ३८ ॥ अत्र 1 national For Private & Personal Use Only १० १४ ww.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy