SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Jain Education I ततो अथ पूर्वभवाद्येषां वच्मि किञ्चित् श्रुतोदधेः । जीवो वीराहतो राजगृहे यः षोडशे भवे ॥ ९८ ॥ कोट्यब्दायुर्वि श्वभूतिर्युवराजात्मजोऽभवत् । वनेऽतिनन्दने सोऽगासन्ते रन्तुमन्यदा ॥ ९९ ॥ युग्मम् । विशाखनन्दिना नुन्नो, वने तत्र रिरंसुना । विश्वनन्दी नरेन्द्रस्तत्पितृव्यः खीयसूनुना ॥ २०० ॥ सामन्तविजयव्याजाद्विश्वभूतिं वनात् । निःसा (निरसा) रयन्महासार:, ( प्रेरयामास राज्ञ्युक्तः) सोऽप्यगात्तत्पुरं ततः ॥ १ ॥ युग्मम् । विधेयं तं च वीक्ष्याशु, तस्मिन् व्रजति तद्वनम् । विशाखनन्दी प्रविष्टस्तत्रोचे स वशा भटैः ॥ २॥ दम्भोऽयं मत्पितृव्येन, मां निस्सारयितुं वनात् । सुतं च तत्रासयितुं, कृत इत्युच्चुकोप सः ॥ ३॥ समीपस्थं कपित्थयुं, ततो मुष्ट्या प्रहृत्य सः । तत्फलौघं प्रपात्यो, योधांस्तानभ्यधात् क्रुधा ॥ ४ ॥ मौलीन् वः पातयाम्येवं भक्तिः स्याद्राज्ञि चेन्न मे । यूयं जीवत रे खामिसंयुता मदुपेक्षिताः ॥ ५ ॥ इत्युक्त्वाऽनर्थमूलत्वं, भोगानां परिभावयन् । संभूतमुनिपादान्ते, संयमे प्रत्यपादि सः (संयमं प्रतिपन्नवान् ) ॥६॥ स दुष्करं तपः कुर्वन्नेकदा मथुरापुरे । मासक्षपणपर्यन्ते, गतो गोचरचर्यया ॥७॥ तत्राहत्यैकया धेन्वा, कृशीयान् पातितो भुवि । तत्रोद्वाहार्थमेतेन, दृष्टो विशाखनन्दिना ॥८॥ हसितश्च क ते बन्धो !, कपित्थच्यावनं बलम् ? । ततः क्रुद्धः स तां धेनुं शृङ्गे धृत्वाऽम्बरेऽक्षिपत् ॥९॥ निदानं कृतवांश्चैवं, तीव्रेण तपसाऽमुना । भूयिष्टवीर्यो भूयासमजय्यस्त्रिदशैरपि ॥ १० ॥ निदानं तदनालोच्य ततो मृत्वा समाधिना । अभूत्खर्गे महाशुक्रे, उत्कृष्टस्थितिकः सुरः ॥ ११ ॥ इतश्च पोतनपुरे, प्रजापतिरभून्नृपः । मृगावतीं स्वपुत्र स, वीक्ष्य कामवशोऽभवत् ॥ १२ ॥ देशे पुरेऽन्तःपुरे च, रत्नस्य जनिमीयुषः । नृप एव प्रभु For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy