________________
लोकप्रकाशे काललोके
चत्र्याद्येषु
॥५३१॥
अश्वसेनाभिघोऽथासीद्राजा राजगृहे पुरे । वप्रा तस्य प्रिया प्रेष्ठा, जयनामा तयोः सुतः ॥ २५ ॥ एकादशचक्रवर्त्ती, सोऽन्यदा भावयन् हृदि । भवखरूपं संप्राप्तवैराग्यो जगृहे व्रतम् ॥ २६ ॥ स द्वादशधनुस्तुङ्गः, प्राप्य केवलमुज्वलम् । आयुर्वर्षसहस्राणि त्रीण्यापूर्य ययौ शिवम् ॥ २७ ॥ इति जयः ॥
ब्रह्माह्वोऽभवद्राजा, काम्पील्यपुरभूपतिः । चुलनी दयिता तस्य, ब्रह्मदत्तस्तयोः सुतः ॥ २८॥ अस्य च ब्रह्मराजस्य चत्वारः सुहृदोऽभवन् । कणेरदत्तः कुरुराट्, काशीशः कटको नृपः ॥ २९ ॥ दीर्घराजः कोशलेशः, पुष्पचूलोऽङ्गभूपतिः । पञ्चापि वर्षवारेण, तेऽवसन्नकपत्तने ॥३०॥ युग्मम् | द्वादशाब्दं वयः प्राप्ते, ब्रह्मदत्ते पिताऽस्व च। व्यपद्यत शिरःशूलात् शेषैर्मित्रैस्ततः क्रमात् ॥ ३१ ॥ बालस्य मित्रपुत्रस्य, पालनायानुवत्सरम् । एकैकेन स्थेयमिति, प्रतिज्ञातं हितावहैः ॥ ३२ ॥ युग्मम् । अथ तत्र स्थितो दीर्घराजो रक्तामरीरमत् । चुलनीं राज्य सर्वत्रैः, सहोदृढामिव स्त्रियम् ॥ ३३ ॥ मन्त्री च ब्रह्मराजस्य, धनुर्नामा व्यचिन्तयत् । मार्जार इव दुग्धस्य, राज्यस्यास्यैष रक्षकः ॥ ३४ ॥ मित्रपत्नीं रमयता, यशो गमयता निजम् । धिगनेन ब्रह्ममैत्री, शातिता लज्जया सह ॥ ३५ ॥ मैवं स्त्रीराज्यलुब्धोऽयं, ब्रह्मदत्तं वधीदिति । धनुर्वरधनुं पुत्रं तद्रक्षायै न्ययोजयत् ॥ ३६ ॥ ब्रह्म दत्तोऽपि विज्ञाय, दीर्घराजकुचेष्टितम् । दृष्टान्तैर्विविधैः स्पष्टं, स्वाभिप्रायमदीदृशत् ॥ ३७ ॥ संयोज्य वायसं हंस्या, तौ हत्वा चैवमब्रवीत् । एताविव मया घात्यो, नीतिविप्लवकारिणौ ॥ ३८ ॥ अहं काकस्त्वं पिकीति, बालो न्यायमदर्शयत् । जारेण चुलनीत्युक्ता, प्राह बालाद्विभेषि किम् ? ॥ ३९ ॥ एकदा भद्रहस्तिन्या, संयोज्य
Jain Education national
For Private & Personal Use Only
महापद्मादयत्रिणः
२०
२५
॥५३१॥
२८
jainelibrary.org