SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Jain Education विजयभूपतेः । वप्राराज्ञीकुक्षिरत्नं, नमिनामा जिनोऽभवत् ॥ १७ ॥ युग्मम् । आश्विनस्य पौर्णमासी, श्रावणस्यासिताऽष्टमी । नवम्याषाढस्य कृष्णा, मार्गस्यैकादशी सिता ॥ १८ ॥ राधस्य दशमी कृष्णा, कल्याणकदिना इति । सर्वेष्वप्यश्विनी धिष्ण्यं, राशिर्मेषः स्मृतः प्रभोः ॥ १९ ॥ अष्टघस्त्राधिका मासा, नवाभूद्गरभस्थितिः । नीलाब्जं लक्ष्म चापानि, देहः पञ्चदशोच्छ्रितः ॥ २० ॥ गर्भस्थिते प्रभौ द्वङ्गरोधिनो रिपवो नताः । तस्मान्नान्ना नमी रागाधरीणां नमनेन वा ॥ २१ ॥ षडिश्च शरदां लक्षैर्मुनिसुव्रतनिर्वृतेः । दशवर्षसहस्रोनैरजायत नमिप्रभुः ॥ २२ ॥ लक्षाणि पञ्च वर्षाणां सहस्रा वार्द्धिदिग्मिताः (८४) । जिनायुश्वावशिष्यन्ते, तदा तुर्यारके ध्रुवम् ॥ २३ ॥ सार्द्धं वर्षसहस्त्रे द्वे, कुमारत्वेऽवसद्विभुः । पञ्च वर्षसहस्राणि, प्राज्यं राज्यमपालयत् ॥ २४ ॥ पुनः सार्द्धं सहस्रे द्वे, पालयामास संयमम् । दशाब्दानां सहस्राणि सर्वमायुरपूपुरत् ॥ २५ ॥ शिविका देवकुर्वाख्या, श्रीनमिखामिनो व्रते । आद्यां वीरपुरे भक्त्या, दिन्नो दत्ते स्म पारणाम् ॥ २६ ॥ मासा नवैव च्छाद्मस्थ्यं, बकुलो ज्ञानभूरुहः । प्रभोर्गणभृतः सप्तदश पेशलसंयमाः ॥ २७ ॥ महर्षीणां सहस्राणि विंशतिः कीर्त्तितान्यथ । साध्वीनामेकचत्वारिंशदेव च सहस्रकाः ॥ २८ ॥ लक्षं सहस्त्रैः सप्तत्या, समन्वितमुपासकाः । लक्षास्तिस्रोऽष्टचत्वारिंशत्सहस्राण्युपासिकाः ॥ २९ ॥ केवलज्ञानिनामेकं सहस्रं षट्शताधिकम् । शता द्वादश पञ्चाशाः, षष्ट्याच्या वा मनोविदाम् ||३०|| अवधिज्ञानिनां षड्तिः, सहस्रमधिकं शतैः । चतुर्दशपूर्वभृतामद्ध्यर्द्धा च चतुःशती ॥ ३१ ॥ सहस्रं वादिनां पञ्च, सहस्रा वैक्रियस्पृशाम् । शुभाख्यो गणभृन्मुख्योऽनिलाख्या च प्रवर्त्तिनी ॥ ३२ ॥ tonal For Private & Personal Use Only १४ Lainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy