SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पष्टिभवा भागास्ततोऽमी एकविंशतिः । अहोरात्रस्य संपन्नास्तेऽधिकाः सप्तविंशतौ ॥ २८॥ एवं नक्षत्रमासस्योपपत्तिरिह वर्णिता । चन्द्रमासस्योपपत्तिमथ वक्ष्ये यथागमम् ॥ २९ ॥ त्रिंशता तिथिभिः प्रोक्तश्चन्द्रमासो जिनेश्वरैः। भवन्ति तिथयश्चेन्दोः, कलावृद्धिक्षयोद्भवाः॥ ३० ॥ कलाः कुर्यात् षोडशेन्दोस्तत्र चैका कला भवेत् ।द्वाषष्टिभागीकृतेन्दुविभागद्वितयात्मिका ॥३१॥ अन्याः पुनस्ता द्वाषष्टिभागीकृतसितत्विषः। भागच-15 तुष्टयरूपाः, स्युः पञ्चदशसंमिताः॥ ३२ ॥ तत्राद्यांशद्वयरूपा, सदैव स्यादनावृता । आब्रियन्ते च मुच्यन्ते, राहुणाऽन्याः कला मुहुः॥ ३३ ॥ कालश्चैककलायाः स्यात्पिधाने वा प्रकाशने । एकषष्टिरहोरात्रस्यांशा द्वाष-12 ष्टिकल्पिताः ॥ ३४ ॥ पिधीयमानचन्द्रांशास्तिथयः कृष्णपक्षजाः। प्रकाशमानचन्द्रांशास्तिथयः शुक्लपक्षजाः ॥ ३५॥ यथोक्तस्तिथिकालोऽसौ, त्रिंशता गुणितो भवेत् । अष्टादश शतास्त्रिंशा, द्वापष्टिप्रभवा लवाः॥३६॥ द्वाषष्ट्यैषां हृते भागे, विधुमासो यथोदितः। एकन्यूनत्रिंशदहोरात्रा द्वात्रिंशदंशकाः ॥ ३७॥ कृष्णपक्षप्रति. पदः, प्रारभ्य पूर्णिमावधि । ऋतुमासो भवेत्रिंशदहोरात्रात्मकः स्फुटम् ॥ ३८॥ सूर्यमासस्योपपत्तिरथ किश्चिन्निगद्यते । भान्यष्टाविंशतिर्मेषादयो द्वादश राशयः ॥ ३९॥ चतुष्पश्चाशत्सहस्रान्, शतैर्नवभिरन्वि-18 तान् । प्राग्निरूपितनक्षत्रभागान् द्वादशभिर्भजेत् ॥४०॥ सपञ्चसप्ततिः पञ्चचत्वारिंशच्छती ततः। प्राप्ता नक्षत्रभागानां, राशिमानं तदेव हि ॥ ४१ ॥ सार्द्धत्रिंशदहोरात्रभोग्योऽयं राशिरिष्यते । अयमेवार्कमासः स्याद्यः |संक्रान्तिरितीर्यते ॥ ४२ ॥ पञ्च पञ्चैव ऋक्षांशान् , मुहूर्तेन पुरोदितान्। अहोरात्रेण वा व्यर्द्ध, शतं भुते दिने-8| १४ Join Educati o nal For Private & Personal Use Only Orainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy