________________
ताम् ॥ २४ ॥ इतः परेषामष्टानां, यश्च जन्मनि वक्ष्यते । शेषस्तुर्यस्यारकस्य, सातिरेकः स ऊह्यताम् ॥ २५॥ सचतुरशीतिसहस्रः, शरदां लक्षैश्च पञ्चषष्टिमितैः । अरनाथावधि विज्ञेयमन्तरमेवं धियां निधिभिः ॥ २६ ॥ ( आर्या ) युग्मम् ॥ प्रशशाम पितुर्दाहो, गर्भस्थेशानुभावतः । नन्दाराज्ञीकरस्पर्शात्, शीतलः प्रथितस्ततः | ॥ २७ ॥ जगत्तापहरत्वेन, भगवान शीतलोऽथवा । अभूद्राशिर्धनुर्नामा, श्रीवत्सो लाञ्छनं प्रभोः ॥ २८ ॥ कुमारत्वं सहस्राणि, पूर्वाणां पञ्चविंशतिः । पश्चाशच सहस्राणि, पूर्वाणां राज्यवैभवम् ॥ २९ ॥ व्रते पूर्वसह-18 स्राणि, पूर्णानि पञ्चविंशतिः । सर्वमायुः पूर्वलक्षं, छाद्मस्थ्यं च त्रिमासिकम् ॥ ३०॥ शुक्रप्रभाख्या शिविका, प्रथमां पारणां ददौ । पुनर्वसू रिष्ठपुरे, प्लक्षो ज्ञानद्रुमः प्रभोः॥३१॥ एकाशीतिगणधरा, लक्षमेकं च साधवः। आर्याः षटकाधिक लक्षमेकं साध्व्योऽभवन् विभोः ॥ ३२॥ लक्षद्वयं श्रावकाणां, नवाशीतिसहस्रयुक् । सहस्राण्यष्टपञ्चाशचतुर्लक्षी तथाऽऽस्तिकाः॥३३॥ सर्वज्ञानां सहस्राणि, सप्त चेतोविदां पुनः। सहस्राः सप्त कथिता, अधिकाः पञ्चभिः शतैः॥३४॥ द्विसप्ततिः शतान्यासन्नवधिज्ञानशालिनाम् । चतुर्दश पूर्वभृतां, शतानि च ॥३५॥ लसद्वैक्रियलब्धीनां, द्वादशैव सहस्रकाः।सहस्राः पञ्चसंयुक्ता, वादिनामष्टभिः शतैः। धनूंषि नवतिर्देहो, नन्दो मुख्यो गणाधिपः । प्रवर्तिनी च सुयशा, भक्तः सीमन्धरो नृपः॥ ३७॥ ब्रह्मा यक्षश्चतुर्वक्रः, श्वेतवर्णस्त्रिलोचनः । पद्मासनो दिशोऽष्टापि, पालयन्नष्टभिर्भुजैः ॥ ३८ ॥ मुद्गरं मातुलिङ्गं च, पाशकं चाभयं तथा । अपसव्ये दधात्येव, स्पष्टं पाणिचतुष्टये ॥ ३९ ॥ नकुलं च गदामेवमङ्कुशं चाक्षसूत्र
Jain Education
a
l
For Private Personel Use Only
S
ainelibrary.org