________________
५
भयां-पूर्वेण भगवतश्चिता वृत्ता, दक्षिणेनेक्ष्वाकूणां चिता त्र्यम्रा, अपरेण शेषसाधुचिता चतस्रा, ततोऽग्नि-19 कुमारा वदनैः खल्वग्निं प्रक्षिप्तवन्तः, ततो लोकेऽग्निमुखा देवा इति प्रसिद्धमित्यादि । प्रभोश्चिताग्निमसकृद्याचिता माहनैः सुराः । आहुस्तान याचकांस्ते च, तथैव प्रथिता भुवि ॥ ३४॥ सदाऽनिर्वाणमग्निं तं, धृत्वा कुण्डेषु वेश्मसु । त्रिसन्ध्यं पूजयन्तस्ते, संजाता आहिताग्नयः॥ ३५॥ अहंदेक्ष्वाक्कन्यसाधुचितात्रयसमुद्भव त्रिविधोऽग्निः कष्टपापहरोऽभूदग्निहोत्रिणाम् ॥ ३६ ॥ अथ वार्द्धकिरत्नेन, भरतस्तत्र पर्वते । अचीकरजिन- गृहं, गव्यूतत्रितयोच्छ्रितम् ॥ ३७॥ योजनायामतदर्द्धविष्कम्भं तचतुर्मुखम् । चतुर्विंशददर्चा, मानवर्णान्विता धौ ॥ ३८॥ तस्मिन् सिंहनिषद्याख्ये, प्रासादे भरतेश्वरः। अकारयजिनार्चानां, प्रतिष्ठां मुनिपुङ्गवैः ॥३९॥ भ्रातृणां नवनवतेः, प्रतिमामात्मनोऽपि च । तथा स्तूपशतं तत्र, चितास्थानेष्वरीरचत् ॥ ४०॥ नव
भ्रातृणामेकं स्तूपं जगदरोः। मा कार्षीत्कश्चिदाक्रामन्नेतदाशातनामिति ॥४१॥ संतक्ष्य दण्डरत्नेन, परितोऽष्टापदं गिरिम् । अष्टौ योजनमानास्तन्मेखलाः स व्यरीरचत् ॥ ४२॥ चके लोहमयान् यन्त्रपुरुषान् द्वारपालकान् । ततः क्रमेण सगरात्मजैश्यानुरागतः॥४३॥ कृताऽत्र दण्डरत्नेन, परिखा दिव्यशक्तिना। भगीरथेन सा गङ्गाजलौघैः पूरिता ततः॥४४॥ अष्टभिः कुलकम् ।
अथ प्रकृतं-पुत्रपौत्रादिका शिष्यप्रशिष्यायेति च द्विधा । नाभेयस्य भगवतोऽभवत्पदृपरम्परा ॥४५॥ तत्र शिष्यप्रशिष्यादिपारम्पर्यव्यपेक्षया । पहाधिपाः प्रभोः संख्यातीताःप्रापुः परं पदम् ॥ ४६॥ आदित्यय
Jain Educatio
n
al
For Private Personel Use Only
Mainelibrary.org