________________
चउविहसुर चक्किबला वैमाणिअ हुँति हरिअरिहा॥१२॥” इति संग्रहण्याद्यभिप्रायः । श्रीआवश्यकनियुक्तौ तु -मनुष्यगतेरागतस्यापि श्रीवीरस्य प्राग्भवे चक्रित्वमुक्तं, तथाहि-"चुलसीइमप्पइट्टे सीहो नरएसु तिरियमणुएसु। पिअमित्त चक्कवट्टी मूअविदेहाइ चुलसीएं॥१३॥” इति ज्ञेयं । तीर्थकरवदेतेऽपि, जातिगोत्रोन्नतिस्पृशाम् । वशेषु भूभृतामेवोत्पद्यन्ते नत्वनीदृशाम् ॥ १४॥ तद्वचतुर्दशस्वप्नसूचितोत्पत्तयः क्रमात् । जायन्ते जनकोनीतप्रौढजन्ममहोत्सवाः ॥ १५॥ अर्हद्वन्नाकनरकागतयोश्चक्रिणोः प्रसूः। पश्यति द्वादशे खप्ने, विमानभवने क्रमात ॥ १६॥ धान्येकाऽधिकृता स्तन्ये, द्वे मजनविभूषयोः। अन्योत्सङ्गापणे नित्यं, परा च क्रीडनादिषु ॥ १७॥ एवं च-धात्रीभिः पञ्चभिः पाल्यमानाः क्लुप्तोचितायाः। ते सुखेनैव वर्द्धन्ते, नन्दनखर्दुमा इव ॥१८॥ साक्षीकृत्य कलाचार्यमधीताखिलवाङ्मयाः।लक्षणानां सहस्रेणाष्टोत्तरेण विराजिताः॥१९॥ लोमभिर्दक्षिणावत,रचितेनाधिकश्रिया।महापुरुषचिहेन,श्रीवत्सेनाप्तवक्षसः॥२०॥ तथोक्तं श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रे भरतचक्रिवर्णने-"पसस्थलोमविरइयसिरिवच्छलंछणविउलवच्छदेसे" इति। षट्त्रिंशता नृपगुणैस्ते प्रशस्तैरलताः। राज्यं क्रमादईमानं, पालयन्ति क्रमागतम् ॥२१॥षट्त्रिंशतं नृपगुणांश्चैवमाहुः-"अव्यङ्गो १ लक्षणैः पूर्णो २,रूपसंपत्तिभृत्तनुः ३। अमदो ४ जगदोजस्वी ५, यशस्वी च ६ कृपालुहृत् ७॥२२॥ कलासु कृतकर्मा च ८, शुद्धराजकुलोद्भवः ।
१ तिरियमणुएसु इति भवभ्रमणोपलक्षणं, तेन मध्ये सुरनारकभवत्वेऽपि न क्षतिः, सप्तविंशतेर्भवेभ्योऽधिकत्वं तूभयथापि, नहि चरितानुवादो विधेर्निलोठकतया वक्तुं युक्तः।
Jain Educat
OIWww.jainelibrary.org
For Private Personal Use Only
i onal