________________
झानां, सर्वसंख्या भवेदियम् ॥ ६०॥ सहस्राः सप्त सप्तैव, षट्सप्तत्यधिकाः शताः । एकेन पञ्चयोगेन, हताश स्तावन्त एव ते ॥६१॥ इयं च स्थापना प्राज्ञेस्ताहगाकारसंभवात् । शास्त्रेषु देवकुलिकाकारेति व्यपदिश्यते ॥ ६२॥ पञ्चस्वणुव्रतेष्वेवं, निर्दिष्टानां यथाक्रमम् । संयोगजानां भङ्गानां, भवेत् संकलना त्वियम् ॥ ६३॥
सहस्राः षोडशाष्टौ च, शताः षडधिका अथ । उत्तरवतभृत्सम्यगढग्योगेऽष्टाधिका अपि १६८०८ ॥ ६४॥ द्वादशानां व्रतानां च, भङ्गसंकलना भवेत् । विविच्यमाना षडङ्गया, कोटीशतास्त्रयोदश ॥६५॥ कोट्यश्चतुरशीतिश्च, लक्षाणि द्वादशोपरि । सप्ताशीतिः सहस्राणि, द्वाभ्यां युक्तं शतद्वयम् ॥६६॥ अत्र शतोपरितनं यद द्वयं तदुत्तरगुणधारिकेवलसम्यक्त्वधारिरूपं भेदद्वयं ज्ञेयम् , अनोत्तरगुणाश्च विविधतपोऽभिग्रहरूपा इति ध्येयं, अनायमानायः-पड़ भङ्गा व्रत एकस्मिन् , ये निर्दिष्टा जिनैः श्रुते।द्वितीयव्रतयोगे ते, हन्यन्ते सप्तभिः
किल ॥ ६७ ॥ षट् क्षिप्यन्तेऽत्र चैवं स्युर्भङ्गका व्रतयोद्वयोः । अष्टाचत्वारिंशदेव, जातास्ते विधिनाऽमुना aln६८॥ अत्र चैवं प्रकारान्तरेण वासना-द्वयोव्रतयोरूर्वपतिस्थापना, अत्र च 'यथा खमन्त्यं मुक्त्वा तानु- १०
पर्युपरि निक्षिपेत्' इति पूर्वोक्तवचनात् अङ्कक्षेपसंभवो नास्तीति तथैव स्थिता, तथा च एकयोगे द्वौ भङ्गो, द्विकयोगश्चैकः, तत्र द्वयोरेकयोगयोःप्रत्येकं षट् भङ्गा इति द्वादश द्विकयोगस्य षत्रिंशदिति अष्टचत्वारिंशदिति । विवक्षितव्रताङ्केभ्य, एकन्यूनाङ्कसंख्यया । एवं मुहुः कृते शेषभङ्गसंकलनाऽऽप्यते ॥ ६९॥ व्रतेषु च द्वादशसु, चरानेकादशे तकि । कृते पूर्वोदिता सर्वभङ्गसंकलना स्फुटा ॥७॥ त्रिकाल्या गुणने त्वेषां, भङ्ग
JainEducation
For Private 3 Personal Use Only
a
ntainelibrary.org