________________
तरूणामूचे तथापि पूर्वोक्तानुपपत्तिस्तदवस्थैव, पञ्चधनुःशतोचाया वप्रभित्तेरुपरि भूत्वा तच्छाखानां वहिः प्रसरणस्य दुरुपपादत्वात् , जिनाङ्गानि हि उत्सेधाङ्गुलेन पञ्चधनुःशतादिमानानि स्युः, वप्रभित्तिस्तु वर्तमान-16 जिनात्माङ्गुलेन पञ्चधनुःशतमानेत्यादि सम्यक् चिन्तनीयं, तेन यदि दिव्यानुभावादप्रभित्तिमध्यभागेनाशो-18 कचैत्यवृक्षाणां शाखाः प्रथमवप्राहहिःप्रसयुस्तदा किमनुपपन्नं स्यादित्यवधार्य, अन्यथा वा यथाऽऽगमं परिभा|वनीयमिदमिति ॥ न्यग्रोधाद्या अमी ज्ञानोत्पत्तिवृक्षा यथायथम् । सर्वेषामहतां भाव्या, अशोकोपरिवर्तिनः ॥११॥ तस्याशोकस्य मूले च, देवच्छन्दोऽर्हतां भवेत् । सिंहासनानि चत्वारि, तत्र च स्युश्चतुर्दिशम् ॥१२॥ तानि स्वर्णमयान्युद्यद्रनालीखचितानि च । जिनं द्रष्टुं क्लुप्तलक्षाक्षाणीवानेकहीरकैः ॥१३ ॥ पुरश्चैकैकमुद्योति. रत्नज्योतिर्भरेलसत् । पादपीठं धृतोल्लासमिवाहत्पदसंगमे ॥१४॥ प्रतिसिंहासनं प्रौढच्छत्राणां स्थात्रयं त्रयम् । उपर्युपरिसंस्थायिमौक्तिकश्रेण्यलङ्कृतम् ॥१५॥ तथाऽऽहुः-तवोर्ध्वमूवं पुण्यर्द्धिक्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी॥१६॥” प्रतिसिंहासनं चन्द्रचारुचामरधारिणी । सुरौ द्वौ द्वावुभयतः, सर्वालङ्कार-|| भासुरौ ॥ १७॥ सिंहासनस्य पुरतः, सुवर्णकमलस्थितम् । चतुर्दिशं धर्मचक्रमेकैकं भानुजित्वरम् ॥ १८ ॥ तचाहतां त्रिभुवनधर्मचक्रित्वसूचकम् । स्फुरज्ज्योतिः स्मृतमपि, प्रतिपक्षमदापहम् ॥ १९॥ सिंहासनं धर्मचक्रं, ध्वजश्छत्रं च चामराः। चरन्त्याकाशमार्गेण, क्षितौ विहरति प्रभो ॥२०॥ तथाह:-"आगासगएणं १ शाखानिर्गमो न भवति यावत् तावत एवात्र विवक्षितत्वं, तेन योजनप्रमाणत्वे वप्रभित्तिबहिर्गमने च स्याद् घटना ।
थे.प्र. ७६
Jan Education
For Private sPersonal use Only
Maiainelibrary.org